पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४६
[अध्यायः २
मनुस्मृतिः।

व्याख्यातं च एकाक्षरं परं यस्य तदेकाक्षरपरं एवं प्राणायामपरमिति मेधातिथिप्र- भृतिभिर्वृद्धैरलिखितं यतः लिखनापाठान्तरं तत्र स्वतन्त्रो धरणीधरः ॥ ८३ ॥

क्षरन्ति सर्वा वैदिक्यो जुहोतियजतिक्रियाः।
अक्षरं दुष्करं ज्ञेयं ब्रह्म चैव प्रजापतिः ॥ ८४ ॥

 क्षरन्तीति ॥ सर्वा वेदविहिता होमयागादिरूपाः क्रियाः स्वरूपतः फलतश्च विनश्यन्ति । अक्षरं तु प्रणवरूपमक्षयं ब्रह्मप्राप्तिहेतुत्वात्फलद्वारेणाक्षरं ब्रह्मीभावस्याविनाशात् । कथमस्य ब्रह्मप्राप्तिहेतुत्वमत आह - ब्रह्म चैवेति । चशब्दो हेतौ । यस्मात्प्रजानामधिपतिर्यब्रह्म तदेवायमोंकारः। स्वरूपतो ब्रह्मप्रतिपादकत्वेन चास्य ब्रह्मत्वम् । उभयथापि ब्रह्मत्वप्रतिपादकत्वेन वायमुपासितो जपकाले मोक्षहेतुरित्यनेन दर्शितम् ॥ ८४ ॥

विधियज्ञाज्जपयज्ञो विशिष्टो दशभिर्गुणैः ।
उपांशुः स्याच्छतगुणः साहस्रो मानसः स्मृतः॥ ८५ ॥

 विधियज्ञादिति ॥ विधिविषयो यज्ञो विधियज्ञो दर्शपौर्णमासादिस्तस्मात्प्रकृतानां प्रणवादीनां जपयज्ञो दशगुणाधिकः । सोऽप्युपांशुश्चेदनुष्ठितस्तदा शतगुणाधिकः। यत्समीपस्थोऽपि परो न शृणोति तदुपांशु। मानसस्तु जपः सहस्रगुणाधिकः । यत्र जिह्वौष्टं मनागपि न चलति स मानसः ॥ ८५ ॥

ये पाकयज्ञाश्चत्वारो विधियज्ञसमन्विताः।
सर्वे ते जपयज्ञस्य कलां नार्हन्ति षोडशीम् ॥ ८६ ॥

 ये पाकयज्ञा इति ॥ ब्रह्मयज्ञादन्ये ये पञ्चमहायज्ञान्तर्गता वैश्वदेवहोमबलिकर्मनित्यश्राद्धातिथिभोजनात्मकाश्चत्वारः पाकयज्ञाः विधियज्ञा दर्शपौर्णमासादयस्तैः सहिता जपयज्ञस्य षोडशीमपि कलां न प्राप्नुवन्ति । जपयज्ञस्य षोडशांशेनापि न समा इत्यर्थः ॥ ८६॥

जप्येनैव तु संसिध्येद्ब्राह्मणो नात्र संशयः।
कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते ॥ ८७ ॥

 जप्येनैवेति ॥ ब्राह्मणो जप्येनैव निःसंदेहां सिद्धिं लभते मोक्षप्राप्तियोग्यो भवति । अन्यद्वैदिकं यागादिकं करोतु न करोतु वा । यस्मान्मैत्रो ब्राह्मणो ब्रह्मणः संबन्धी ब्रह्मणि लीयत इत्यागमेषूच्यते । मित्रमेव मैत्रः । स्वार्थेऽण् । यागादिषु पशुबीजादिवधान्न सर्वप्राणिप्रियता संभवति तस्माद्यागादिना विनापि प्रणवादिजपनिष्टो निस्तरतीति जपप्रशंसा नतु यागादीनां निषेधस्तेषामपि शास्त्रीयत्वात्॥८७॥

 इदानीं सर्ववर्णानुष्ठेयं सकलपुरुषार्थोपयुक्तमिन्द्रियसंयममाह-

इन्द्रियाणां विचरतां विषयेष्वपहारिषु ।
संयमे यत्नमातिष्ठेद्विद्वान्यन्तेव वाजिनाम् ॥ ८८॥