अध्येष्यमाणं तु गुरुर्नित्यकालमतन्द्रितः। |
अध्येष्यमाणमिति ॥ अध्ययनं करिष्यमाणं शिष्यं सर्वदा अनलसो गुरुरधीष्व भो इति प्रथमं वदेत् । शेषे विरामोऽस्त्वित्यभिधाय विरमेन्निवर्तेत ॥ ७३ ॥
ब्रह्मणः प्रणवं कुर्यादादावन्ते च सर्वदा । |
ब्रह्मणः प्रणवमिति ॥ ब्रह्मणो वेदस्याध्ययनारम्भे अध्ययनसमाप्तौ चोंकारं कुर्यात् । यस्मात्पूर्वं यस्योंऽकारो न कृतस्तत्स्रवति शनैः शनैर्नश्यति । यस्य पुरस्तान्न कृतस्तद्विशीर्यति अवस्थितिमेव न लभते ॥ ७४ ॥
प्राक्कूलान्पर्युपासीनः पवित्रैश्चैव पावितः। |
प्राक्कूलानिति ॥ प्राक्कूलान्प्रागग्रान्दर्भानध्यासीनः पवित्रैः कुशैः करद्वयस्थैः पवित्रीकृतः ‘प्राणायामास्त्रयः पञ्चदशमात्राः' इति गोतमस्मरणात्पञ्चदशमात्रैस्त्रिभिः प्राणायामैः प्रयतः । अकारादिलघ्वक्षरकालश्च मात्रा । ततोऽध्ययनार्थमोंकारमर्हति ॥ ७५ ॥
अकारं चाप्युकारं च मकारं च प्रजापतिः । |
अकारं चेति ॥ 'एतदक्षरमेतां च' इति वक्षति तस्यायं शेषः । अकारमुकारं मकारं च प्रणवावयवभूतं ब्रह्मा वेदत्रयादृग्यजुःसामलक्षणाद्भूर्भुवःस्वरिति व्याहृतित्रयं च क्रमेण निरदुहदुद्धृतवान् ॥ ७६ ॥
त्रिभ्य एव तु वेदेभ्यः पादं पादमदूदुहत् । |
त्रिभ्य एवेति ॥ तथा त्रिभ्य एव वेदेभ्य ऋग्यजुःसामभ्यः तदित्यच इति प्रतीकेनानूदितायाः सावित्र्याः पादं पादमिति त्रीपादान्ब्रह्मा चकर्ष । परमे स्थाने तिष्ठतीति परमेष्ठी ॥ ७७ ॥
एतदक्षरमेतां च जपन्व्याहृतिपूर्विकाम् । |
यत एवमत एतदक्षरमिति ॥ एतदक्षरमोंकाररूपम्, एतां च त्रिपदां सावित्रीं व्याहृतित्रयपूर्विकां संध्याकाले जपन्वेदज्ञो विप्रादिर्वेदत्रयाध्ययनपुण्येन युक्तो भवति । अतः संध्याकाले प्रणवव्याहृतित्रयोपेतां सावित्रीं जपेदिति विधिः कल्प्यते ॥ ७८ ॥