दिभिः स्मृतः । पतिसेवैव गुरुकुले वासो वेदाध्ययनरूपः । गृहकृत्यमेव सायंप्रातः समिद्धोमरूपोऽग्निपरिचर्या । तस्माद्विवाहादेरुपनयनस्थाने विधानादुपनयनादे-निवृत्तिरिति ॥ ६७ ॥
एष प्रोक्तो द्विजातीनामौपनायनिको विधिः। |
एष इति ॥ औपनायनिक इत्यनुशतिकादित्वादुभयपदवृद्धिः । अयं द्विजातीनामुपनयनसंबन्धी कर्मकलाप उक्तः उत्पत्तेर्द्वितीयजन्मनो व्यञ्जकः ॥ ६८ ॥
इदानीमुपनीतस्य येन कर्मणा योगस्तं शृणुतेत्याह-
उपनीय गुरुः शिष्यं शिक्षयेच्छौचमादितः। |
उपनीय गुरुरिति ॥ गुरुः शिष्यमुपनीय प्रथमम् 'एका लिङ्गे गुदे तिस्रः' इत्यादि वक्ष्यमाणं शौचं स्नानाचमनाद्याचारमग्नौ सायंप्रातः समिद्धोमानुष्ठानं समन्त्रकसंध्योपासनविधिं च शिक्षयेत् ॥ ६९ ॥
अध्येष्यमाणस्त्वाचान्तो यथाशास्त्रमुदङ्मुखः । |
अध्येष्यमाण इति ॥ अध्ययनं करिष्यमाणः शिष्यो यथाशास्त्रं कृताचमन उत्तराभिमुखः कृताञ्जलिः पवित्रवस्त्रः कृतेन्द्रियसंयमो गुरुणा अध्याप्यः । 'प्राङ्मुखो दक्षिणतः शिष्य उदङ्मुखो वा' इति गोतमवचनात्प्राङ्मुखस्याप्यध्ययनम् । ब्रह्माञ्जलिकृत इति 'वाहिताग्न्यादिषु' इत्यनेन कृतशब्दस्य परनिपातः ॥ ७० ॥
ब्रह्मारम्भेऽवसाने च पादौ ग्राह्यौ गुरोः सदा । |
ब्रह्मारम्भेऽवसाने चेति ॥ वेदाध्ययनस्यारम्भे कर्तव्ये समापने च कृते गुरोः पादोपसंग्रहणं कर्तव्यम् । हस्तौ संहत्य संश्लिष्टौ कृत्वाध्येतव्यं स एव ब्रह्माञ्जलिः स्मृत इति पूर्वश्लोकोक्तब्रह्माञ्जलिशब्दार्थव्याकारः॥ ७१ ॥
व्यत्यस्तपाणिना कार्यमुपसंग्रहणं गुरोः । |
व्यत्यस्तपाणिनेति॥ पादोपसंग्रहणं कार्यमित्यनन्तरमुक्तं तद्व्यत्यस्तपाणिना कार्यमिति विधीयते । कीदृशो व्यत्यासः कार्य इत्यत आह-सव्येन पाणिना सव्यः पादो दक्षिणेन पाणिना दक्षिणः पादो गुरोः स्पष्टव्यः । उत्तानहस्ताभ्यां चेदं पादयोः स्पर्शनं कार्यम् । यदाह पैठीनसिः–'उत्तानाभ्यां हस्ताभ्यां दक्षिणेन दक्षिणं सव्यं सव्येन पादावभिवादयेत् । दक्षिणोपरिभावेन व्यत्यासो वायं शिष्टसमाचाराद्' ॥ ७२ ॥ .