पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अध्यायः २]
४१
मन्वर्थमुक्तावलीसंवलिता।

 ब्राह्मणेति ॥ ब्राह्मादिसंज्ञेयं शास्त्रे संव्यवहारार्था स्तुत्यर्था च । नतु मुख्यं ब्रह्मदेवताकत्वं संभवति । अयागरूपत्वात् । तीर्थशब्दोऽपि पावनगुणयोगाद्ब्राह्मणेन तीर्थेन सर्वदा विप्रादिराचामेत् । कः प्रजापतिस्तदीयः, 'तस्येदम्' इत्यण् इकारश्चान्तादेशः । त्रैदशिको देवस्ताभ्यां वा। पित्र्येण तु तीर्थेन न कदाचिदाचामेत् । अप्रसिद्धत्वात् ॥ ५८  ब्राह्मादितीर्थान्याह-

अङ्गुष्ठमूलस्य तले ब्राह्मं तीर्थं प्रचक्षते ।
कायमङ्गुलिमूलेऽग्रे दैवं पित्र्यं तयोरधः ॥ ५९ ॥

 अङ्गुष्ठमूलस्येति ॥ अङ्गुष्ठमूलस्याधोभागेब्राह्मं, कनिष्टाङ्गुलिमूले कार्य, अङ्गुलीनामग्रे दैवं, अङ्गुष्ठप्रदेशिन्योर्मध्ये पित्र्यं तीर्थं मन्वादय आहुः । यद्यपि कायमङ्गुलिमूले, तयोरध इत्यत्र चाङ्गुलिमात्रं श्रुतं तथापि स्मृत्यन्तराद्विशेषपरिग्रहः । तथाच याज्ञवल्क्यः -'कनिष्टादेशिन्यङ्गुष्ठमूलान्यग्रं करस्य च । प्रजापतिपितृब्रह्मदेवतीर्थान्यनुक्रमात् ॥ ५९॥  सामान्येनोपदिष्टस्याचमनस्यानुष्ठानक्रममाह-

त्रिराचामेदपः पूर्वं द्विः प्रमृज्यात्ततो मुखम् ।
खानि चैव स्पृशेदद्भिरात्मानं शिर एव च ॥ ६०॥

 त्रिराचामेदिति ॥ पूर्वं ब्राह्मादितीर्थेन जलगण्डूषत्रयं पिबेत् । अनन्तरं संवृत्यौष्ठाधरौ वारद्वयमङ्गुष्ठमूलेन संमृज्यात् । 'संवृत्याङ्गुष्ठमूलेन द्विः प्रमृज्यात्ततो मुखम्' इति दक्षेण विशेषाभिधानात् । खानि चेन्द्रियाणि जलेन स्पृशेत् । मुखस्य सन्निधानान्मुखखान्येव । गोतमोऽप्याह - 'खानि चोपस्पृशेच्छीर्षण्यानि हृद्यन्तर्ज्योतिः पुरुषः' इत्युपनिषत्सु हृदयदेशत्वेनात्मनः श्रवणादात्मानं हृदयं शिरश्चाद्भिरेव स्पृशेत् ॥ ६० ॥

अनुष्णाभिरफेनाभिरद्भिस्तीर्थेन धर्मवित् ।
शौचेप्सुः सर्वदाचामेदेकान्ते प्रागुदङ्मुखः ॥ ६१॥

 अनुष्णाभिरिति ॥ अनुष्णीकृताभिः फेनवर्जिताभिर्ब्राह्मादितीर्थेन शौचमिच्छन्नेकान्ते जनैरनाकीर्णे शुचिदेश इत्यर्थः। प्राङ्मुख उदङ्मुखो वा सर्वदाचामेत् । आपस्तम्बेन तप्ताभिश्च कारणादित्यभिधानाब्द्याध्यादिकारणव्यतिरेकेण नाचामेत् । व्याध्यादौ तु उष्णीकृताभिरप्याचमने दोषाभावः । तीर्थव्यतिरेकेणाचमने शौचाभाव इति दर्शयितुमुक्तस्यापि तीर्थस्य पुनर्वचनम् ॥ ६१ ॥  आचमनजलपरिमाणमाह-

हृद्गाभिः पूयते विप्रः कण्ठगाभिस्तु भूमिपः ।
वैश्योऽद्भिः प्राशिताभिस्तु शूद्रः स्पृष्टाभिरन्ततः ॥६२ ॥