पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/७४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


४०
[अध्यायः २
मनुस्मृतिः।

ण्यानि' इति गोतमवचनात् । उपस्पर्शनं कृत्वा खानि संस्पृशेदिति पृथग्विधाना- न्त्रिभक्षणमात्रमाचमनम्, खस्पर्शनादिकमितिकर्तव्यतेति दर्शितम् ॥ ५३ ॥

पूजयेदशनं नित्यमद्याच्चैतदकुत्यसन् ।
दृष्ट्वा हृष्येत्प्रसीदेच्च प्रतिनन्देच्च सर्वशः॥५४॥

 पूजयेदशनमिति ॥ सर्वदा अन्नं पूजयेत्प्राणार्थत्वेन ध्यायेत् । तदुक्तमादिपुराणे- 'अन्नं विष्णुः स्वयं प्राह' इत्यनुवृत्तौ 'प्राणार्थं मां सदा ध्यायेत्स मां संपूजयेत्सदा । अनिन्दंश्चैतदद्यात्तु दृष्ट्वा हृष्येत्प्रसीदेच्च॥'इति । हेत्वन्तरमपि खेदमन्नदर्शनेन त्यजेत्। प्रतिनन्देत् । नित्यमस्माकमेतदस्त्वित्यभिधाय वन्दनं प्रतिनन्दनम् । तदुक्तमादि- पुराणे-'अन्नं दृष्ट्वा प्रणम्यादौ प्राञ्जलिः कथयेत्ततः । अस्माकं नित्यमस्त्वेतदिति भक्त्या स्तुवन्नमेत् ॥' सर्वशः सर्वमन्नम् ॥ ५४ ॥

पूजितं ह्यशनं नित्यं बलमूर्जं च यच्छति ।
अपूजितं तु तद्भुक्तमुभयं नाशयेदिदम् ॥ ५५ ॥

 पूजितमिति ॥ यस्मात्पूजितमन्नं सामर्थ्यं वीर्यं च ददाति । अपूजितं पुनरेतदुभयं नाशयति । तस्मात्सर्वदाऽन्नं पूजयेदिति पूर्वेणैकवाक्यतापन्नमिदं फलश्रवणम् । संध्यावन्दनादावुपात्तदुरितक्षयवन्नित्यं कामनाविषयत्वेनापि नित्यश्रुतिरवि- हतानित्यश्रुतिविरोधात् । फलश्रवणं स्तुत्यर्थमिति तु मेधातिथिगोविन्दराजौ ॥५५॥

नोच्छिष्टं कस्यचिद्दद्यान्नाद्याच्चैव तथान्तरा ।
नचैवात्यशनं कुर्यान्न चोच्छिष्टः कचिद्व्रजेत् ॥ ५६ ॥

 नोच्छिष्टमिति ॥ भुक्तावशेषं कस्यचिन्न दद्यात् । चतुर्थ्यां प्राप्तायां संबन्धमात्र- विवक्षया षष्ठी । अनेनैव सामान्यनिषेधेन शूद्रस्याप्युच्छिष्टदाननिषेधे सिद्धे 'नोच्छिष्टं न हविष्कृतम्' इति शूदगोचरनिषेधश्चातुर्थः स्नातकव्रतत्वार्थः । दिवासायंभोजनयोश्च मध्ये न भुञ्जीत । वारद्वयेऽप्यतिभोजनं न कुर्यान्नातिसौहित्यमाचरेदिति चातुर्थं स्नातकव्रतार्थम् । उच्छिष्टः सन् क्वचिन्न गच्छेत् ॥ ५६ ॥  अतिभोजने दोषमाह-

अनारोग्यमनायुष्यमस्वर्ग्यं चातिभोजनम् ।
अपुण्यं लोकविद्विष्टं तस्मात्तत्परिवर्जयेत् ॥ ५७ ॥

 अनारोग्यमिति ॥ अरोगो रोगाभावस्तस्मै हितमारोग्यं आयुषे हितमायुष्यम् । यस्मादतिभोजनमनारोग्यमनायुष्यं च भवति अजीर्णजनकत्वेन रोगमरणहेतुत्वात् । अस्वर्ग्यं च स्वर्गहेतुयागादिविरोधित्वात् । अपुण्यमितरपुण्यप्रतिपक्षत्वात् ।। लोकविद्विष्टं बहुभोजितया लोकैर्निन्दनात् । तस्मात्तन्न कुर्यात् ॥ ५७ ॥

ब्राह्मेण विप्रस्तीर्थेन नित्यकालमुपस्पृशेत् ।
कायत्रैदशिकाभ्यां वा न पित्र्येण कदाचन ॥ ५८ ॥