पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अध्यायः २]
३९
मन्वर्थमुक्तावलीसंवलिता।

 प्रतिगृह्येप्सितमिति ॥ उक्तलक्षणं प्राप्तुमिष्टं दण्डं गृहीत्वा आदित्याभिमुखं स्थित्वाग्निं प्रदक्षिणीकृत्य यथाविधि भैक्षं याचेत् ॥ ४८ ॥

भवत्पूर्वं चरेद्भैक्षमुपनीतो द्विजोत्तमः ।
भवन्मध्यं तु राजन्यो वैश्यस्तु भवदुत्तरम् ॥ ४९ ॥

 भवदिति ॥ ब्राह्मणो भवति भिक्षां देहीति भवच्छब्दपूर्वं भिक्षां याचन्वाक्यमु- च्चारयेत् । क्षत्रियो भिक्षां भवति देहीति भवन्मध्यम् । वैश्यो भिक्षां देहि भव- तीति भवदुत्तरम् ॥ ४९ ॥

मातरं वा स्वसारं वा मातुर्वा भगिनी निजाम् ।
भिक्षेत भिक्षां प्रथमं या चैनं नावमानयेत् ॥ ५० ॥

 मातरं वेति ॥ उपनयनाङ्गभूतां भिक्षां प्रथमं मातरं भगिनीं वा मातुर्वा भगिनीं सहोदरां याचेत् । या चैनं ब्रह्मचारिणं प्रत्याख्यानेन नावमन्येत । पूर्वासंभव उत्तरापरिग्रहः ॥ ५० ॥

समाहृत्य तु तद्भैक्षं यावदन्नममायया ।
निवेद्य गुरवेऽश्नीयादाचम्य प्राङ्मुखः शुचिः ॥ ५१ ॥

 समाहृत्येति ॥ तद्भैक्षं बहुभ्य आहृत्य यावदन्नं तृप्तिमात्रोचितं गुरवे निवेद्य निवेदनं कृत्वा अमायया न कदन्नेन सदन्नं प्रच्छाद्यैवमेतद्गुरुर्ग्रहीप्यतीत्यादिमाया- व्यतिरेकेण तदनुज्ञात आचमनं कृत्वा शुचिः सन् भुञ्जीत प्राङ्मुखः ॥ ५५ ॥  इदानीं काम्यभोजनमाह-

आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः।
श्रियं प्रत्यङ्मुखो भुङ्क्ते ऋतं भुङ्क्ते ह्युदङ्मुखः ॥ ५२॥

 आयुष्यमिति ॥ आयुषे हितमन्नं प्राङ्मुखो भुङ्क्ते । आयुःकामः प्राङ्मुखो भुङ्क्त इत्यर्थः । यशसे हितं दक्षिणामुखः । श्रियमिच्छन्प्रत्यङ्मुखः । ऋतं सत्यं तत्फल- मिच्छन्नुदङ्मुखो भुञ्जीत ॥ ५२ ॥

उपस्पृश्य द्विजो नित्यमन्नमद्यात्समाहितः।
भुक्त्वा चोपस्पृशेत्सम्यगद्भिः खानि च संस्पृशेत् ॥५३॥

 उपस्पृश्येति ॥ 'निवेद्य गुरवेऽश्नीयादाचम्य' इति यद्यपि भोजनात्प्रागाचमनं विहितं तथाप्यद्भिः खानि च संस्पृशेदिति गुणविधानार्थोऽनुवादः । नित्यं ब्रह्मच- र्यानन्तरमपि द्विज आचम्यान्नं भुञ्जीत । समाहितोऽनन्यमनाः भुक्त्वा चाचा- मेदिति । सम्यग्यथाशास्त्रम् । तेन 'प्रक्षाल्य हस्तौ पादौ च त्रिः पिबेदम्बु वीक्षितम्' इत्यादि दक्षाद्युक्तमपि संगृह्णाति । जलेन खानीन्द्रियाणि षद छिद्राणि च स्पृशेत् । तानि च शिरःस्थानि घ्राणचक्षुःश्रोत्रादीनि ग्रहीतव्यानि । 'खानि चोपस्पृशेच्छीर्ष-