पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/७२

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


३८
[अध्यायः २
मनुस्मृतिः।

बुवाणस्य मेधातिथेरपि बहुवचनपाठः संमतः। मुञ्जाद्यालाभे ब्राह्मणादीनां त्रयाणां यथाक्रमं कुशादिभिस्तृणविशेषैर्मेखलाः कार्याः । त्रिगुणेनैकप्रन्थिना युक्तास्त्रिभिर्वा पञ्चभिर्वा । अत्रच वाशब्दनिर्देशाद्ग्रन्थीनां न विप्रादिभिः क्रमेण संबन्धः किंतु सर्वत्र यथाकुलाचारं विकल्पः । ग्रन्थिभेदश्वायं मुख्यामुख्यापेक्षासंभवाद्ग्रही- तव्यः ॥४३॥

कार्पासमुपवीतं स्याद्विपस्योर्ध्ववृतं त्रिवृत् ।
शणसूत्रमयं राज्ञो वैश्यस्याविकसौत्रिकम् ॥ ४४ ॥

 कार्पासमिति ॥ यदीयविन्यासविशेषस्योपवीतसंज्ञां वक्ष्यति तद्धर्मिब्राह्मणस्य कार्पासम्, क्षत्रियस्य शणसूत्रमयम्, वैश्यस्य मेषलोमनिर्मितम् । त्रिवृदिति त्रिगुणं कृत्वा ऊर्ध्ववृतं दक्षिणावर्तितम् । एतच्च सर्वत्र संबध्यते । यद्यपि गुणत्रयमेवोर्ध्व- बृतं मनुनोक्तं तथापि तत्त्रिगुणीकृत्य त्रिगुणं कार्यम् । तदुक्तं छन्दोगपरिशिष्टे- 'ऊर्ध्वं तु त्रिवृतं कार्यं तन्तुत्रयमधोवृतम् । त्रिवृतं चोपवीतं स्यात्तस्यैको ग्रन्थिरि- प्यते ॥' देवलोऽप्याह-'यज्ञोपवीतं कुर्वीत सूत्राणि नव तन्तवः ॥ ४४ ॥

ब्राह्मणो बैल्वपालाशौ क्षत्रियो वाटखादिरौ ।
पैलवौदुम्बरौ वैश्यो दण्डानर्हन्ति धर्मतः ॥ ४५ ॥

 ब्राह्मण इति ॥ यद्यपि द्वन्द्वनिर्देशेन समुच्चयावगमाद्धारणमपि समुच्चितस्यैव प्राप्तं तथापि 'केशान्तिको ब्राह्मणस्य दण्डः कार्यः' इति, तथा 'प्रतिगृह्येप्सितं दण्डम्' इति विधावेकत्वस्य विवक्षितत्वात् 'बैल्वः पालाशो वा दण्डः' इति वासिष्ठे विकल्पदर्शनादेकस्यैव दण्डस्य धारणविकल्पितयोरेवैकब्राह्मणसंबन्धात्स- मुच्चयो द्वन्द्वेनानूद्यते । ब्राह्मणादयो विकल्पेन द्वौ द्वौ दण्डौ वक्ष्यमाणकार्ये कर्तु- मर्हन्ति ॥ ४५ ॥

केशान्तिको ब्राह्मणस्य दण्डः कार्यः प्रमाणतः।
ललाटसंमितो राज्ञः स्यात्तु नासान्तिको विशः ४६॥

 केशान्तिक इति ॥ केशललाटनासिकापर्यन्तपरिमाणक्रमेण ब्राह्मणादीनां दण्डाः कर्तव्याः ॥ ४६॥

ऋजवस्ते तु सर्वे स्युरव्रणाः सौम्यदर्शनाः ।
अनुद्वेगकरा नॄणां सत्वचोऽनग्निदूषिताः ॥ ४७ ॥

 ऋजव इति ॥ ते दण्डाः अव्रणा अक्षताः शोभनदर्शनाः सवल्कला अग्निदाह- रहिता भवेयुः ॥ ४७ ॥  नच तैः प्राणिजातमुद्वेजनीयमित्याह-

प्रतिगृह्येप्सितं दण्डमुपस्थाय च भास्करम् ।
प्रदक्षिणं परीत्याग्निं चरेद्भैक्षं यथाविधि ॥४८॥