पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अध्यायः २]
३७
मन्वर्थमुक्तावलीसंवलिता।

राजन्यवैश्ययोः ॥ प्रायश्चित्तं भवेदेषां प्रोवाच वदतां वरः । विवस्वतः सुतः श्रीमान्यमो धर्मार्थतत्त्ववित् ॥ सशिखं वपनं कृत्वा व्रतं कुर्यात्समाहितः । हविष्यं भोजयेदन्नं ब्राह्मणान्सप्त पञ्च वा ॥ ३८॥

अत ऊर्ध्वं त्रयोऽप्येते यथाकालमसंस्कृताः।
सावित्रीपतिता व्रात्या भवन्त्यार्यविगहिताः ॥ ३९ ॥

 अत ऊर्ध्वमिति ॥ एते ब्राह्मणादयो यथाकालं यो यस्यानुकल्पिकोऽप्युपनयनकाल उक्तः पोडशवर्षादिपर्यन्तं तत्रासंस्कृतास्तदूर्ध्वं सावित्रीपतिता उपनयनहीनाः शिष्टगर्हिता ब्रात्यसंज्ञा भवन्ति । संज्ञाप्रयोजनं च 'ब्रात्यानां याजनं कृत्वा' इत्यादिना व्यवहारसिद्धिः ॥ ३९ ॥

नैतैरपूतविधिवदापद्यपि हि कर्हिचित् ।
ब्राह्मान्यौनांश्च संबन्धानाचरेद्ब्राह्मणः सह ॥४०॥

 नैतैरिति ॥ एतैरपूतैर्ब्रात्यैर्यथाविधिप्रायश्चित्तमकृतवद्भिः सह आपत्कालेऽपि कदाचिदध्यापनकन्यादानादीन्संबन्धान्ब्राह्मणो नानुतिष्ठेत् ॥ ४० ॥

कार्ष्णरौरवबास्तानि चर्माणि ब्रह्मचारिणः ।
वसीरन्नानुपूर्व्येण शाणक्षौमाविकानि च ॥४१॥

 कार्ष्णरौरवबास्तानीति ॥ कार्ष्ण इति विशेषानभिधानेऽपि मृगविशेषो रुरुसाहचर्यात् 'हारिणमैणेयं वा कार्ष्णं वा ब्राह्मणस्य' इत्यापस्तम्बवचनाच्च कृष्णमृगो गृह्यते। कृष्णमृगरुरुच्छागचर्माणि ब्रह्मचारिण उत्तरीयाणि वसीरन् । 'चर्माण्युत्तरी- याणि' इति गृह्यवचनात् । तथा शणक्षुमामेषलोमभवान्यधोवसनानि ब्राह्मणादयः क्रमेण परिदधीरन् ॥ ४१ ॥

मौञ्जी त्रिवृत्समा श्लक्ष्णा कार्या विप्रस्य मेखला ।
क्षत्रियस्य तु मौर्वी ज्या वैश्यस्य शणतान्तवी ॥ ४२ ॥

 मौजीति ॥ मुञ्जमयी त्रिगुणा समगुणत्रयनिर्मिता सुखस्पर्शा ब्राह्मणस्य मेखला कर्तव्या । क्षत्रियस्य मूर्वामयीज्या धनुर्गुणरूपा मेखला । अतो ज्यात्वविनाशापत्ते- स्त्रिवृत्त्वं नास्तीति मेधातिथिगोविन्दराजौ । वैश्यस्य शणसूत्रमयी । अत्र त्रैगुण्य- मनुवर्तत एव । 'त्रिगुणाः प्रदक्षिणा मेखलाः' इति सामान्येन प्रचेतसा त्रैगुण्या- भिधानात् ॥ ४२ ॥

मुञ्जालाभे तु कर्तव्याः कुशाश्मन्तकबल्वजैः।
त्रिवृता ग्रन्थिनैकेन त्रिभिः पञ्चभिरेव वा ॥४३॥

 मुञ्जालाभे त्विति ॥ कर्तव्या इति बहुवचननिर्देशाद्ब्रह्मचारित्रयस्य प्रकृतत्वान्मु- ख्यालाभे त्रिष्वप्यपेक्षायाः समत्वात्कौशादीनां च तिसृणां विधानात् मुञ्जाद्यलाभ इति बोद्धव्यम् । कर्तव्या इति बहुवचनमुपपन्नतरम् । भिन्नजातिसंबन्धितयेति

 मनु० ४