पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४
[अध्यायः २
मनुस्मृतिः।

 एतानिति ॥ अन्यदेशोद्भवा अपि द्विजातयो यज्ञार्थत्वाददृष्टार्थत्वाच्चैतान्देशान्प्रयत्नादाश्रयेरन् । शूद्रस्तु वृत्तिपीडितो वृत्त्यर्थमन्यदेशमप्याश्रयेत् ॥ २४ ॥

एषा धर्मस्य वो योनिः समासेन प्रकीर्तिता।
संभवश्चास सर्वस्य वर्णधर्मान्निबोधत ॥ २५॥

 एषा धर्मस्येति ॥ एषा युप्माकं धर्मस्य योनिः संक्षेपेणोक्ता । योनिर्ज्ञप्तिकारणं 'वेदोऽखिलो धर्ममूलम्' इत्यादिनोक्तमित्यर्थः । गोविन्दराजस्त्विह धर्मशब्दोऽपूर्वाख्यात्मकधर्मे वर्तत इति विद्वद्भिः सेवित इत्यत्र तत्कारणेऽष्टकादौ वा पूर्वाख्यस्य धर्मस्य योनिरिति व्याख्यातवान् । संभवश्चोत्पत्तिर्जगत इत्युक्ता । इदानी वर्णधर्माञ्छृणुत । वर्णधर्मशब्दश्च वर्णधर्माश्रमधर्मवर्णाश्रमधर्मगुणधर्मनैमित्तिकध- र्माणामुपलक्षकः। ते च भविष्यपुराणोक्ताः-'वर्णधर्मः स्मृतस्त्वेक आश्रमाणामतः परम् । वर्णाश्रमस्तृतीयस्तु गौणो नैमित्तिकस्तथा ॥ वर्णत्वमेकमाश्रित्य यो धर्मः संप्रवर्तते । वर्णधर्मः स उक्तस्तु यथोपनयनं नृप ॥ यस्त्वाश्रमं समाश्रित्य अधिकारः प्रवर्तते । स खल्वाश्रमधर्मस्तु भिक्षादण्डादिको यथा ॥ वर्णत्वमाश्रमत्वं च योऽधिकृत्य प्रवर्तते । स वर्णाश्रमधर्मस्तु मौञ्जीया मेखला यथा ॥ यो गुणेन प्रवर्तेत गुणधर्मः स उच्यते । यथा मूर्धाभिषिक्तस्य प्रजानां परिपालनम् ॥ निमित्तमेकमाश्रित्य यो धर्मः संप्रवर्तते । नैमित्तिकः स विज्ञेयः प्रायश्चित्तविधिर्यथा' ॥ २५ ॥

वैदिकैः कर्मभिः पुण्यैर्निषेकादिर्द्विजन्मनाम् ।
कार्यः शरीरसंस्कारः पावनः प्रेत्य चेह च ॥२६॥

 वैदिकैरिति ॥ वेदमूलत्वाद्वैदिकैः पुण्यैः शुभैर्मन्त्रयोगादिकर्मभिः द्विजातीनां गर्भाधानादिशरीरसंस्कारः कर्तव्यः । पावनः पापक्षयहेतुः । प्रेत्य परलोके संस्कृतस्य यागादिफलसंबन्धात्, इह लोके च वेदाध्ययनाद्यधिकारात् ॥ २६ ॥  कुतः पापसंभवो येनैषां पापक्षयहेतुत्वमत आह--

गार्भैर्होमैर्जातकर्मचौडमौञ्जीनिबन्धनैः।
बैजिक गार्भिकं चैनो द्विजानामपमृज्यते ॥ २७ ॥

 गार्भैरिति ॥ ये गर्भशुद्धये क्रियन्ते ते गार्भाः । होमग्रहणमुपलक्षणम् । गर्भाधानादेरहोमरूपत्वात् । जातस्य यत्कर्म मन्त्रवत्सर्पिःप्राशनादिरूपं तज्जातकर्म । चौडं चूडाकरणकर्म। मौञ्जीनिबन्धनमुपनयनम्।एतैर्बैजिकं प्रतिषिद्धमैथुनसंकल्पादिना च पैतृकरेतोदोषाद्यद्यत्पापं गार्भिकं चाशुचिमातृगर्भवासजं तद्विजातीनामपमृज्यते ॥ २७ ॥

स्वाध्यायेन व्रतैर्होमैस्त्रैविद्येनेज्यया सुतैः ।
महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः ॥२८॥

 स्वाध्यायेनेति ॥ वेदाध्ययनेन । व्रतैर्मधुमांसवर्जनादिनियमैः। होमैः सावित्रचरुहोमादिभिः सायंप्रातर्होमैश्च । त्रैविद्याख्येन च । व्रतेष्वप्राधान्यादस्य पृथगुप-