पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/६५

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


अध्यायः २]
३१
मन्वर्थमुक्तावलीसंवलिता।

 सर्वं त्विति ॥ सर्वं शास्त्रजातं वेदार्थावगमोचितं ज्ञानं मीमांसाव्याकरणादिकं ज्ञानमेव चक्षुस्तेन निखिलं तद्विशेषेण पर्यालोच्य वेदप्रामाण्येनानुष्टेयमवगन्य स्वधर्मेऽवतिष्ठेत ॥८॥

श्रुतिस्मृत्युदितं धर्ममनुतिष्ठन्हि मानवः ।
इह कीर्तिमवाप्नोति प्रेत्य चानुत्तमं सुखम् ॥९॥

 श्रुतिस्मृत्युदितमिति ॥ श्रुतिस्मृत्युदितं धर्ममनुतिष्ठन्मानव इह लोके धार्मि- कत्वेनानुषङ्गिकीं कीर्तिं परलोके च धर्मफलमुत्कृष्टं स्वर्गापवर्गादिसुखरूपं प्राप्नोति । अनेन वास्तवगुणकथनेन श्रुतिस्मृत्युदितं धर्ममनुतिष्ठेदिति विधिः कल्प्यते ॥ ९ ॥

श्रुतिस्तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः।
ते सर्वार्थष्वमीमांस्ये ताभ्यां धर्मो हि निर्बभौ ॥१०॥

 श्रुतिस्त्विति ॥ लोकप्रसिद्धसंज्ञासंज्ञिसंबन्धानुवादोऽयं श्रुतिस्मृत्योः प्रति- कूलतर्केणामीमांस्यत्वविधानार्थं, स्मृतेः श्रुतितुल्यत्वबाधनेनाचारादिभ्यो बल- बत्त्वप्रतिपादनार्थ च । तेन स्मृतिविरुद्धाचारो हेय इत्यस्य फलम् । श्रुतिर्वेदः मन्वादिशास्त्रं स्मृतिः ते उभे प्रतिकूलतर्कैर्न विचारयितव्ये । यतस्ताभ्यां निःशेषेण धर्मो बभौ प्रकाशतां गतः ॥ १० ॥

योऽवमन्येत ते मूले हेतुशास्त्राश्रयाद्द्विजः ।
स साधुभिर्बहिष्कार्यो नास्तिको वेदनिन्दकः ॥ ११ ॥

 योऽवमन्येतेति ॥ यः पुनस्ते द्वे श्रुतिस्मृती द्विजोऽवमन्येत स शिष्टैर्द्विजानुष्ठेया- ध्ययनादिकर्मणो निःसार्यः । पूर्वश्लोके सामान्येनामीमांस्ये इति मीमांसानिषेधाद- नुकूलमीमांसापि न प्रवर्तनीयेति भ्रमो माभूदिति विशेषयति-हेतुशास्त्राश्रयात् । वेदवाक्यमप्रमाणं वाक्यत्वात् विप्रलम्भकवाक्यवदित्यादिप्रतिकूलतर्कावष्टम्भेन चार्वाकादिनास्तिक इव नास्तिकः । यतो वेदनिन्दकः ॥ १५ ॥  इदानीं शीलस्याचार एवान्तर्भावसंभवाद्वेदमूलतैव तत्रं न स्मृतिशीला- दिप्रकारनियम इति दर्शयितुं चतुर्धा धर्मप्रमाणमाह-

वेदः स्मृतिः सदाचारः खस्य च प्रियमात्मनः।
एतच्चतुर्विधं प्राहुः साक्षाद्धर्मस्य लक्षणम् ॥ १२ ॥

 वेद इति ॥ वेदो धर्मप्रमाणं स कचित्प्रत्यक्षः क्वचिस्मृत्यानुमित इत्येवं तात्पर्य नतु प्रमाणपरिगणने । अतएव 'श्रुतिस्मृत्युदितं धर्म' इत्यत्र द्वयमेवा- भिहितवान् । सदाचारः शिष्टाचारः । स्वस्य चात्मनः प्रियमात्मतुष्टिः ॥ १२ ॥

अर्थकामेष्वसक्तानां धर्मज्ञानं विधीयते ।
धर्म जिज्ञासमानानां प्रमाणं परमं श्रुतिः ॥१३॥

 अर्थकामेष्विति॥अर्थकामेष्वसक्तानां अर्थकामलिप्साशून्यानां धर्मोपदेशोऽयम्।