पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अध्यायः २]
२९
मन्वर्थमुक्तावलीसंवलिता।

सनातनः ॥ अस्य सम्यगनुष्ठानात्स्वर्गो मोक्षश्च जायते । इह लोके सुखैश्वर्यमतुलं च खगाधिप ॥' श्रेयःसाधनमित्यर्थः । जैमिनिरपि इदमपि धर्मलक्षणमसूत्रयत- 'चोदनालक्षणोऽर्थो धर्मः' इति । उभयं चोदनया लक्ष्यते-अर्थः श्रेयःसाधनं ज्योतिष्टोमादिः, अनर्थः प्रत्यवायसाधनं श्येनादिः। तत्र वेदप्रमाणकं श्रेयःसाधनं ज्योतिष्टोमादि धर्म इति सूत्रार्थः । स्मृत्यादयोऽपि वेदमूलत्वेनैव धर्मे प्रमाणमिति दर्शयिष्यामः । गोविन्दराजस्तु हृदयेनाभ्यनुज्ञात इत्यन्तःकरणविचिकित्साशून्य इति व्याख्यातवान् । तन्मते वेदविद्भिरनुष्ठितः संशयरहितश्च धर्म इति धर्मलक्षणं स्यात् । एवंच दृष्टार्थग्रामगमनादिसाधारणं धर्मलक्षणं विचक्षणा न श्रद्दधते । मेधातिथिस्तु हृदयेनाभ्यनुज्ञात इति यत्र चित्तं प्रवर्तयतीति व्याख्याय, अथवा हृदयं वेदः स ह्यधीतो भावनारूपेण हृदयस्थितो हृदय- मित्युच्यत इत्युक्तवान् ॥ १ ॥

कामात्मता न प्रशस्ता न चैवेहास्त्यकामता ।
काम्यो हि वेदाधिगमः कर्मयोगश्च वैदिकः॥२॥

 कामात्मतेति ॥ फलाभिलाषशीलत्वं पुरुषस्य कामात्मता । सा न प्रशस्ता बन्धहेतुत्वात् । स्वर्गादिफलाभिलाषेण काम्यानि कर्माण्यनुष्ठीयमानानि पुनर्जन्मने कारणं भवन्ति । नित्यनैमित्तिकानि त्वात्मज्ञानसहकारितया मोक्षाय कल्पन्ते । न पुनरिच्छामात्रमनेन निषिध्यते । तदाह न चैवेहास्त्यकामतेति । यतो वेदस्वीकरणं वैदिकसकलधर्मसंबन्धश्चेच्छाविषय एव ॥ २ ॥ अनोपपत्तिमाह-

संकल्पमूलः कामो वै यज्ञाः संकल्पसंभवाः ।
व्रतानि यमधर्माश्च सर्वे संकल्पजाः स्मृताः॥३॥

 संकल्पमूल इति ॥ अनेन कर्मणेदमिष्टं फलं साध्यत इत्येवंविषया बुद्धिः संकल्पः, तदनन्तरमिष्टसाधनतयावगते तस्मिन्निच्छा जायते, तदर्थं प्रयत्नं कुरुते चेत्येवं यज्ञाः संकल्पप्रभवाः, व्रतानि, यमरूपाश्च धर्माश्चतुर्थाध्याये वक्ष्यमाणाः । सर्व इत्यनेन पदेन अन्येऽपि शास्त्रार्थाः संकल्पादेव जायन्ते । इच्छामन्तरेण तान्यपि न संभवन्तीत्यर्थः । गोविन्दराजस्तु व्रतान्यनुष्ठेयरूपाणि यमधर्माः प्रतिषेधार्थका इत्याह ॥३॥  अत्रैव लौकिकं नियमं दर्शयति-

अकामस्य क्रिया काचिद्दृश्यते नेह कर्हिचित् ।
यद्यद्धि कुरुते किंचित्तत्तत्कामस्य चेष्टितम् ॥४॥

अकामस्येति ॥ लोके या काचिद्भोजनगमनादिक्रिया साप्यनिच्छतो न कदाचिद्दृश्यते । ततश्च सर्वं कर्म लौकिकं वैदिकं च यद्यत्पुरुषः कुरुते तत्तदि- च्छाकार्यम् ॥ ४॥