पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८
[ अध्यायः २
मनुस्मृतिः।

 संसारगमनमिति ॥ संसारगमनं देहान्तरप्राप्तिरूपं उत्तममध्यमाधमभेदेन त्रि- विधं शुभाशुभकर्महेतुकम् । निःश्रेयसमात्मज्ञानं सर्वोत्कृष्टमोक्षलक्षणस्य श्रेयोहेतु- त्वात् । कर्मणां च विहितनिषिद्धानां गुणदोषपरीक्षणम् ॥ ११७ ॥

देशधर्माञ्जातिधर्मान्कुलधर्मांश्च शाश्वतान् ।
पाषण्डगणधर्मांश्च शास्त्रेऽस्मिन्नुक्तवान्मनुः॥ ११८ ॥

 देशधर्मानिति ॥ प्रतिनियतदेशेऽनुष्ठीयमाना देशधर्माः, ब्राह्मणादिजातिनियता जातिधर्माः, कुलविशेषाश्रयाः कुलधर्माः, वेदबाह्यागमसमाश्रया प्रतिषिद्धव्रतचर्या पाषण्डं, तद्योगात्पुरुषोऽपि पाषण्डः तन्निमित्ता ये धर्माः 'पाषण्डिनो विकर्मस्थान्' इत्यादयः तेषां पृथग्धर्मानभिधानात् । गणः समूहो वणिगादीनाम् ॥११८॥

यथेदमुक्तवाञ्छास्त्रं पुरा पृष्टो मनुर्मया ।
तथेदं यूयमप्यद्य मत्सकाशान्निबोधत ॥ ११९ ॥

इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां संहितायां प्रथमोऽध्यायः ॥ १ ॥

 यथेदमिति ॥ पूर्वं मया पृष्टो मनुर्यथेदं शास्त्रमभिहितवांस्तथैवान्यूनानतिरिक्तं मत्सकाशाच्छृणुतेति ऋषीणां श्रद्धातिशयार्थे पुनरभिधानम् ॥ ११९ ॥

इति श्रीकुल्लुकभट्टकृतायां मन्वर्थमुक्तावल्या मनुवृत्तौ प्रथमोऽध्यायः ॥ १ ॥

द्वितीयोऽध्यायः।

 प्रकृष्टपरमात्मज्ञानरूपधर्मज्ञानाय जगत्कारणं ब्रह्म प्रतिपाद्याधुना ब्रह्मज्ञानाङ्ग- भूतं संस्कारादिरूपं धर्मं प्रतिपिपादयिषुर्धर्मसामान्यलक्षणं प्रथममाह-

विद्वद्भिः सेवितः सद्भिर्नित्यमद्वेषरागिभिः ।
हृदयेनाभ्यनुज्ञातो यो धर्मस्तं निबोधत ॥१॥

 विद्वद्भिरिति ॥ विद्वद्भिर्वेदविद्भिः सद्भिर्धार्मिकै रागद्वेषशून्यैरनुष्ठितो हृदयेनाभिमुख्येन ज्ञात इत्यनेन श्रेयःसाधनमभिहितं । तत्रहि स्वरसान्मनोऽभिमुखीभवति । वेदविद्भिर्ज्ञात इति विशेषणोपादानसामर्थ्याज्ज्ञातस्य वेदस्यैव श्रेयःसाधनज्ञाने कारणत्वं विवक्षितम् । खड्गधारिणा हत इत्युक्ते धृतखड्गस्यैव हनने प्राधान्यम् । अतो वेदप्रमाणकः श्रेयःसाधनं धर्म इत्युक्तं। एवंविधो यो धर्मस्तं निबोधत। उक्ता- थसंग्रहश्लोकाः-'वेदविद्भिर्ज्ञात इति प्रयुञ्जानो विशेषणम् । वेदादेव परिज्ञातो धर्म इत्युक्तवान्मनुः ॥ हृदयेनाभिमुख्येन ज्ञात इत्यपि निर्दिशन् । श्रेयःसाधन- मित्याह तत्र ह्यभिमुखं मनः ॥ वेदप्रमाणकः श्रेयःसाधनं धर्म इत्यतः । मनूक्तमेव मुनयः प्रणिन्युर्धर्मलक्षणम् ॥' अतएव हारीतः-'अथातो धर्मं व्याख्यास्यामः। श्रुतिप्रमाणको धर्मः । श्रुतिश्च द्विविधा वैदिकी तान्त्रिकी च' । भविष्यपुराणे- 'धर्मः श्रेयः समुद्दिष्टं श्रेयोऽभ्युदयलक्षणम् । स तु पञ्चविधः प्रोक्तो वेदमूल: