पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अध्यायः १]
२७
मन्वर्थमुक्तावलीसंवलिता।

दाराधिगमनं चैव विवाहानां च लक्षणम् ।
महायज्ञविधानं च श्राद्धकल्पं च शाश्वतम् ॥ ११२ ॥

 दाराधिगमनमिति ॥ दाराधिगमनं विवाहः तद्विशेषाणां ब्राह्मादीनां च लक्ष- णम् । महायज्ञाः पञ्च वैश्वदेवादयः। श्राद्धस्य विधिः शाश्वतः प्रतिसर्गमनादिप्रवा- हप्रवृत्त्या नित्यः । एष तृतीयाध्यायार्थः ॥ ११२ ॥

वृत्तीनां लक्षणं चैव स्नातकस्य व्रतानि च ।
भक्ष्याभक्ष्यं च शौचं च द्रव्याणां शुद्धिमेव च ॥ ११३ ।।

 वृत्तीनामिति । वृत्तीनां जीवनोपायानां ऋतादीनां लक्षणं । स्नातकस्य गृहस्थस्य व्रतानि नियमाः। एतच्चतुर्थाध्यायप्रमेयम् । भक्ष्यं दध्यादि, अभक्ष्यं लशुनादि, शौचं मरणादौ ब्राह्मणादेर्दशाहादिना । द्रव्याणां शुद्धिमुदकादिना ॥ ११३ ॥

स्त्रीधर्मयोगं तापस्यं मोक्षं संन्यासमेव च ।
राज्ञश्च धर्ममखिलं कार्याणां च विनिर्णयम् ॥ ११४ ॥

 स्त्रीधर्मयोगमिति ॥ स्त्रीणां धर्मयोगं धर्मोपायं एतत्पाञ्चमिकम् । तापत्यं तपसे वानप्रस्थाय हितं तस्य धर्मम् । मोक्षहेतुत्वान्मोक्षं यतिधर्मम् । यतिधर्मत्वेऽपि संन्यासस्य पृथगुपदेशः प्राधान्यज्ञापनार्थः। एष षष्टाध्यायार्थः। राज्ञोऽभिषिक्तस्य सर्वो दृष्टादृष्टार्थो धर्मः । एष सप्तमाध्यायार्थः। कार्याणामृणादीनामर्थिप्रत्यर्थिसम- र्पितानां विनिर्णयो विचार्य तत्त्वनिर्णयः ॥ ११४ ॥

साक्षिप्रश्नविधानं च धर्मं स्त्रीपुंसयोरपि ।
विभागधर्मं द्यूतं च कण्टकानां च शोधनम् ॥ ११५ ॥

 साक्षीति ॥ साक्षिणां च प्रश्ने यद्विधानं । व्यवहाराङ्गत्वेऽपि साक्षिप्रश्नस्य विधा- ननिर्णयोपायत्वात्पृथङ्निर्देशः । एतदाष्टमिकम् । स्त्रीपुंसयोर्भार्यापत्योः सन्निधावस- न्निधौ च धर्मानुष्ठानं ऋक्थभागस्य च धर्मम् । यद्यपि ऋक्थभागोऽपि कार्याणां च विनिर्णयमित्यनेनैव प्राप्तस्तथाप्यध्यायभेदात्पृथङ्निर्देशः । द्यूतविषयो विधिर्द्यूत- शब्देनोच्यते । कण्टकानां चौरादीनां शोधनं निरसनम् ॥ ११५ ॥

वैश्यशूद्रोपचारं च संकीर्णानां च संभवम् ।
आपद्धर्म च वर्णानां प्रायश्चित्तविधिं तथा ॥ ११६ ॥

 वैश्यशूद्रोपचारं चेति ॥ वैश्यशूद्रोपचारं स्वधर्मानुष्ठानम् । एतन्नवमे । एवं संकीर्णानां अनुलोमप्रतिलोमजानामुत्पत्तिं, आपदि च जीविकोपदेशं आपद्धर्मम् । एतदृशमे । प्रायश्चित्तविधिमेकादशे ॥ ११६ ॥

संसारगमनं चैव त्रिविधं कर्मसंभवम् ।
निःश्रेयसं कर्मणां च गुणदोषपरीक्षणम् ॥ ११७ ॥