पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/६०

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


२६ मनुस्मृतिः । [अध्यायः १

 इदमिति ॥ अभिप्रेतार्थस्याविनाशः स्वस्ति तस्यायनं प्रापकं एतच्छास्त्रस्याध्ययनं स्वस्त्ययनं जपहोमादिबोधकत्वाच्च श्रेष्ठं स्वस्त्ययनान्तरात्प्रकृष्ट बुद्धिविवर्धनम् । एतच्छास्त्राभ्यासेनाशेषविधिनिषेधपरिज्ञानात् । यशसे हितं यशस्यं विद्वत्तया ख्यानिलाभात्परं प्रकृष्टम् । निःश्रेयसं निःश्रेयसस्य मोक्षस्योपायोपदेशकत्वात् ॥१०६

असिन्धर्मोऽखिलेनोक्तो गुणदोषौ च कर्मणाम् ।
चतुर्णामपि वर्णानामाचारश्चैव शाश्वतः ॥ १०७ ॥

 अस्मिन्धर्म इति ॥ अस्मिन्कार्त्स्न्येन धर्मोऽभिहित इति शास्त्रप्रशंसा । कर्मणां च विहितनिषिद्धानामिष्टानिष्टफले । वर्णचतुष्टयस्यैव पुरुषधर्मरूप आचारः शाश्वतः पारम्पर्यागतः । धर्मत्वेऽप्याचारस्य प्राधान्यख्यापनाय पृथड़्निर्देशः ॥ १०७ ॥  प्राधान्यमेव स्पष्टयति-

आचारः परमो धर्मः श्रुत्युक्तः स्मार्त एव च।
तस्मादस्मिन्सदा युक्तो नित्यं स्यादात्मवान्द्विजः ॥१०८॥

 आचार इति ॥ युक्तो यत्नवान् आत्महितेच्छुः । सर्वस्यात्मास्तीति आत्मशब्देन आत्महितेच्छा लक्ष्यते ॥ १०८ ॥

आचाराद्विच्युतो विप्रो न वेदफलमश्नुते ।
आचारेण तु संयुक्तः संपूर्णफलभाग्भवेत् ॥ १०९ ॥

 आचारादिति ॥ आचाराद्विच्युतो विप्रो न वैदिकं फलं लभेत् । आचारयुक्तः पुनः समग्रफलभाग्भवति ॥ १०९ ॥

एवमाचारतो दृष्ट्वा धर्मस्य मुनयो गतिम् ।
सर्वस्य तपसो मूलमाचारं जगृहुः परम् ॥ ११० ॥

 एवमिति ॥ उक्तप्रकारेणाचाराद्धर्मप्राप्तिमृषयो बुध्वा तपसश्चान्द्रायणादेः समग्रस्य कारणमाचारमनुष्टेयतया गृहीतवन्तः । उत्तरत्र वक्ष्यमाणस्याचारस्येह स्तुति शास्त्रस्तुत्यर्था॥ ११०॥  इदानीं शिष्यस्य सुखप्रतिपत्तये वक्ष्यमाणार्थानुक्रमणिकामाह-

जगतश्च समुत्पत्तिं संस्कारविधिमेव च ।
व्रतचर्योपचारं च स्नानस्य च परं विधिम् ॥ १११ ॥

 जगतश्च समुत्पत्तिमिति ॥ पाषण्डगणधर्माश्चेत्यन्तं जगदुत्पत्तिर्यथोक्ता । ब्राह्मणस्तुतिश्च सर्गरक्षार्थत्वेन। ब्राह्मणस्य शास्त्रस्तुत्यादिकं च सृष्टावेवान्तर्भवति । एतत्प्रथमाध्यायप्रमेयम् । संस्काराणां जातकर्मादीनां विधिमनुष्ठानं, ब्रह्मचारिणो व्रताचरणमुपचारं च गुर्वादीनामभिवादनोपासनादि । 'सर्वो द्वन्द्वो विभाषयैक- वद्भवति' इत्येकवद्भावः । एतद्वितीयाध्यायप्रमेयम् । स्नानं गुरुकुलान्निवर्तमानस्य संस्कारविशेषस्तस्य प्रकृष्टं विधानम् ॥ १११ ॥