अध्यायः १] मन्वर्थमुक्तावलीसंवलिता। २५
वत्वेनाभिजनेन श्रेष्ठतया सर्वं ब्राह्मणोऽर्हति सर्वग्रहणयोग्यो भवत्येव । वै अवधारणे ॥ १०० ॥
स्वमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते खं ददाति च । |
स्वमेवेति ॥ यत्परस्याप्यन्नं ब्राह्मणो भुङ्क्ते, परस्य च वस्त्रं परिधत्ते, परस्य गृहीन्वान्यस्मै ददाति तदपि ब्राह्मणस्य स्वमिव । पूर्ववत्स्तुतिः । एवं सति ब्राह्मणस्य कारुण्यादन्ये भोजनादि कुर्वन्ति ॥ १०१ ॥
इदानीं प्रकृष्टब्राह्मणकर्माभिधायकतया शास्त्रप्रशंसां प्रक्रमते-
तस्य कर्मविवेकार्थ शेषाणामनुपूर्वशः। |
तस्य कर्मविवेकार्थमिति ॥ ब्राह्मणस्य कर्मज्ञानार्थ शेषाणां क्षत्रियादीनां च स्वायंभुवो ब्रह्मपुत्रो धीमान्सर्वविषयज्ञानवान्मनुरिदं शास्त्रं विरचितवान् ॥१०२॥
विदुषा ब्राह्मणेनेदमध्येतव्यं प्रयत्नतः । |
विदुषेति ॥ एतच्छास्त्राध्ययनफलज्ञेन ब्राह्मणेन एतस्य शास्त्रस्य व्याख्यानाध्यापनोचितं प्रयत्नतोऽध्ययनं कर्तव्यं शिष्येभ्यश्चेदं व्याख्यातव्यं नान्येन क्षत्रियादिना। अध्ययनमात्रं तु व्याख्यानाध्यापनरहितं क्षत्रियवैश्ययोरपि 'निषेकादिश्मशानान्तैः' इत्यादिना विधास्यते । अनुवादमात्रमेतदिति मेधातिथिमतम् । तन्न मनोहरम् । द्विजैरध्ययनं ब्राह्मणेनैवाध्यापनव्याख्याने इत्यस्यालाभात् । यत्तु 'अधीयीरंस्त्रयो वर्णा.' इत्यादि तद्वेदविषयमिति वक्ष्यति । विप्रेणैवाध्यापनमिति विधानेन संभवत्यप्यनुवादत्वमस्येति वृथा मेधातिथेर्ग्रहः ॥ १०३॥
इदं शास्त्रमधीयानो ब्राह्मणः शंसितव्रतः। |
इदं शास्त्रमिति ॥ इदं शास्त्रं पठन्नेतदीयमर्थं ज्ञात्वा शंसितव्रतोऽनुष्ठितव्रतः मनोवाकायसंभवैः पापैर्न संबध्यते ॥ १०४ ॥
पुनाति पङ्क्तिं वंश्यांश्च सप्त सप्त परावरान् । |
पुनानीति ॥ इदं शास्त्रमधीयान इत्यनुवर्तते । अपाङ्गतयोपहतां पतिमानुपूर्ध्या निविष्टजनसमूह पवित्रीकरोति । बंशभवांश्च सप्त परान्पित्रादीन् , अवरांश्च पुत्रादीन् । पृथिवीमपि सर्वां सकलधर्मज्ञतया पात्रत्वेन गृहीतुं योग्यो भवति॥१०५॥
इदं स्वस्त्ययनं श्रेष्ठमिदं बुद्धिविवर्धनम् । |
मनु० ३