पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५८

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


मनुस्मृतिः । [अध्यायः १

तं हि स्वयंभूरिति ।। तं ब्राह्मणं ब्रह्मा आत्मीयमुखाईवपित्र्ये हविःकव्ये वहनाय तपः कृत्वा सर्वस्य जगतो रक्षायै च क्षत्रियादिभ्यः प्रथमं सृष्टवान् ॥ ९४ ॥

पूर्वोक्तहव्यकव्यवहनं स्पष्टयति-

यस्यास्येन सदाश्नन्ति हव्यानि त्रिदिवौकसः।
कव्यानि चैव पितरः किं भूतमधिकं ततः ॥९५ ॥

यस्यास्येनेति ॥ यस्य विप्रस्य मुखेन श्राद्धादौ सर्वदा देवा हव्यानि पितरश्च कव्यानि भुञ्जते ततोऽन्यत्प्रकृष्टतमं भूतं किं भवेत् ॥ ९५ ॥

भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः।
बुद्धिमत्सु नराः श्रेष्ठा नरेषु ब्राह्मणाः स्मृताः॥ ९६ ॥

भूतानामिति ॥ भूतारब्धानां स्थावरजङ्गमानां मध्ये प्राणिनः कीटादयः श्रेष्ठाः । कदाचिन्सुखलेशात् । तेषामपि बुद्धिजीविनः सार्थनिरर्थदेशोपसर्पणापसपंणकारिणः पश्वादयः । तेभ्योऽपि मनुष्याः । प्रकृष्टज्ञानसंबन्धात् । तेभ्योऽपि ब्राह्मणाः सर्वपूज्यत्वादपवर्गाधिकारयोग्यत्वाच्च ॥ ९६ ॥

ब्राह्मणेषु च विद्वांसो विद्वत्सु कृतबुद्धयः।
कृतबुद्धिषु कर्तारः कर्तृषु ब्रह्मवेदिनः ॥ ९७ ॥

ब्राह्मणेषु चेति ॥ ब्राह्मणेषु तु मध्ये विद्वांसो महाफलज्योतिष्टोमादिकर्माधिकारिचात् । तेभ्योऽपि कृतबुद्धयः अनागतेऽपि कृतं मयेति बुद्धिर्येषाम् । शास्त्रोक्तानुष्टानेषूत्पन्नकर्तव्यताबुद्धय इत्यर्थः । तेभ्योऽपि अनुष्टातारः । हिताहितप्राप्तिपरिहारभागित्वात् । तेस्योऽपि ब्रह्मविदः मोक्षलाभात् ॥ ९७ ॥

उत्पत्तिरेव विप्रस्य मूर्तिधर्मस शाश्वती।
स हि धर्मार्थमुत्पन्नो ब्रह्मभूयाय कल्पते ॥ ९८ ॥

उत्पत्तिरेवेति ॥ ब्राह्मणदेहजन्ममात्रमेव धर्मस्य शरीरमविनाशि । यस्मादसौ धर्मार्थ जातः धर्मानुगृहीतात्मज्ञानेन मोक्षाय संपद्यते ॥ ९८ ॥

ब्राह्मणो जायमानो हि पृथिव्यामधि जायते ।
ईश्वरः सर्वभूतानां धर्मकोशस्य गुप्तये ॥ ९९ ॥

ब्राह्मण इति,॥ यस्माद्राह्मणो जायमानः पृथिव्यामधि उपरि भवति । श्रेष्ठ इत्यर्थः । सर्वभूतानां धर्मसमूहरक्षायै प्रभुः। ब्राह्मणोपदिष्टत्वात्सर्वधर्माणाम् ॥१९॥

सर्वं खं ब्राह्मणस्येदं यत्किचिज्जगतीगतम् ।
श्रेष्ठयेनाभिजनेनेदं सर्वं वै ब्राह्मणोऽर्हति ॥१००॥

सर्वं स्वमिति ॥ यत्किंचिज्जगद्वर्ति धनं तद्राह्मणस्य स्वमिति स्तुत्योच्यते। स्वमिव स्वमेव । ब्राह्मणस्यापि मनुना स्तेयस्य वक्ष्यमाणत्वात्। तस्माद्ब्रह्ममुखोद्भ-