पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अध्यायः १] मन्वर्थमुक्तावलीसंवलिता। २३

अध्यापनमिति ॥अध्यापनादीनामिह सृष्टिप्रकरणे सृष्टिविशेषतयाभिधानं विधिस्तेषामुत्तरत्र भविष्यति । अध्यापनादीनि षट् कर्माणि ब्राह्मणानां कल्पितवान् ॥४८॥

प्रजानां रक्षणं दानमिज्याध्ययनमेव च ।
विषयेष्वप्रसक्तिश्च क्षत्रियस्य समासतः॥ ८९॥

प्रजानामिति ॥ प्रजारक्षणादीनि क्षत्रियस्य कर्माणि कल्पितवान् । विषयेषु गीतनृत्यवनितोपभोगादिप्वप्रसक्तिस्तेषां पुनरनासेवनम् । समासतः संक्षेपेण ॥ ८९॥

पशूनां रक्षणं दानमिज्याध्ययनमेव च ।
वणिक्पथं कुसीदं च वैश्यस्य कृषिमेव च ॥९०॥

पशूनामिति ॥ पशूनां पालनादीनि वैश्यस्य कल्पितत्वात् । वणिक्पथं स्थलजलादिना वाणिज्यम् । कुसीदं वृद्ध्या धनप्रयोगः ॥ १० ॥

एकमेव तु शूद्रस्य प्रभुः कर्म समादिशत् ।
एतेषामेव वर्णानां शुश्रूषामनम्यया ॥९१ ॥

एकमेव विति ॥ प्रभुब्रह्मा शूद्रस्य ब्राह्मणादिवर्णत्रयपरिचर्यात्मकं कर्म निर्मितवान् । एकमेवेति प्राधान्यप्रदर्शनार्थं। दानादेरपि तस्य विहितत्वात् । अनसूयया गुणानिन्दया ॥ ९१ ॥

इदानीं प्राधान्येन सर्गरक्षणार्थत्वाब्राह्मणस्य तदुपक्रमधर्माभिधानत्वाचास्य शास्त्रस्य, ब्राह्मणस्य स्तुतिमाह-

ऊर्ध्वं नाभेर्मेध्यतरः पुरुषः परिकीर्तितः।
तस्मान्मध्यतमं त्वस्य मुखमुक्तं स्वयंभुवा ॥ ९२ ॥

ऊर्ध्वमिति ॥ सर्वत एव पुरुषो मेध्यः, नाभेरूर्ध्वमतिशयेन मेध्यः, ततोऽपि मुखमस्य, मेध्यतमं ब्रह्मणोक्तम् ॥ ९२ ॥

ततः किमत आह-

उत्तमाङ्गोद्भवाज्यैष्ठयाब्रह्मणश्चैव धारणात् ।
सर्वस्यैवास्य सर्गस्य धर्मतो ब्राह्मणः प्रभुः ॥ ९३ ॥


उत्तमाङ्गोद्भवादिति।।उत्तमाङ्गं मुखं तदुद्भवत्वात् क्षत्रियादिभ्यः पूर्वोत्पन्नत्वादध्यापनव्याख्यानादिना युक्तस्यातिशयेन वेदधारणात्सर्वस्यास्य जगतो धर्मानुशासनेन ब्राह्मणः प्रभुः । 'संस्कारस्य विशेषात्तु वर्णानां ब्राह्मणः प्रभुः ॥ ९३ ॥

कस्योत्तमाङ्गादयमुद्धृत इत्यत आह-

तं हि स्वयंभूः स्वादास्यात्तपस्तप्त्वादितोऽसृजत् ।
हव्यकव्याभिवाह्याय सर्वस्यास्य च गुप्तये ॥ ९४ ॥