पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अध्यायः १] • मन्वर्थमुक्तावलीसंवलिता। २१

ज्योतिषश्च विकुर्वाणादापो रसगुणाः स्मृताः।
अद्भ्यो गन्धगुणा भूमिरित्येषा सृष्टिरादितः ॥ ७८ ॥

ज्योतिषश्चेति ॥ तेजस आप उत्पद्यन्ते । ताश्च रसगुणयुक्ताः । अन्यो गन्धगुणयुक्ता भूमिरित्येषा महाप्रलयानन्तरसृष्टयादौ भूतसृष्टिः । तैरेव भूतैरवान्तरप्रलयानन्तरमपि भूरादिलोकत्रयनिर्माणम् ॥ ७८ ॥

यत्प्रग्द्वादशसाहस्रमुदितं दैविकं युगम् ।
तदेकसप्ततिगुणं मन्वन्तरमिहोच्यते ॥ ७९ ॥

यत्नागिति ॥ यत्पूर्वं द्वादशवर्षसहस्रपरिमाणं संध्याध्यांशसहितं मनुष्याणां चतुर्युगं देवानामेकं युगमुक्तं तदेकसप्ततिगुणितं मन्वन्तराख्यः काल इह शास्त्रेऽभिधीयते । तत्रैकस्य मनोः सर्गाद्यधिकारः ॥ ७९ ॥

मन्वन्तराण्यसंख्यानि सर्गः संहार एव च ।
क्रीडन्निवैतत्कुरुते परमेष्ठी पुनः पुनः ॥ ८० ॥

मन्वन्तराणीति ॥ यद्यपि चतुर्दशमन्वन्तराणि पुराणेषु परिगण्यन्ते, तथापि सर्गप्रलयानामानन्त्यादसंख्यानि । आवृत्त्या सर्गः संहारश्चासंख्यः । एतत्सर्वं क्रीडन्निव प्रजापतिः पुनः पुनः कुरुते । सुखार्थी हि प्रवृत्तिः क्रीडा । तस्य चाप्तकामत्वान्न सुखार्थितेति इवशब्दः प्रयुक्तः । परमे स्थानेऽनावृतलक्षणे तिष्टतीति परमेष्ठी । प्रयोजनं विना परमात्मनः सृष्ट्यादौ कथं प्रवृत्तिरिति चेल्लीलयैव । एवंस्वभावत्वादित्यर्थः । व्याख्यातुरिव करताडनादौ । तथाच शारीरकसूत्रं 'लोकवत्तु लीलाकैवल्यम्' ॥ ८० ॥

चतुष्पात्सकलो धर्मः सत्यं चैव कृते युगे ।
नाधर्मेणागमः कश्चिन्मनुष्यान्प्रति वर्तते ॥ ८१ ॥

चतुष्पात्सकलो धर्म इति ॥ सत्ययुगे सकलो धर्मश्चतुष्पात्सर्वाङ्गसंपूर्ण आसीत् । धर्मे मुख्यपादासंभवात् 'वृषो हि भगवान्धर्मः' इत्याद्यागमे वृषत्वेन कीर्तनात्तस्य पादचतुष्टयेन संपूर्णत्वात्सत्ययुगेऽपि धर्माणां सर्वैरङ्गैः समग्रत्वात्संपूर्णत्वपरोऽर्य चतुष्पाच्छब्दः । अथवा तपः परमित्यत्र मनुनैव तपोज्ञानयज्ञदानानां चतुर्णा कीर्तनात्तस्य पादचतुष्टयेन संपूर्णत्वात्पादत्वेन निरूपिताः सत्ययुगे समग्रा इत्यर्थः। तथा सत्यं च कृतयुगमासीत् । सकलधर्मश्रेष्ठत्वात्सत्यस्य पृथग्ग्रहणम् । तथा न शास्त्रातिक्रमेण धनविद्यादेरागम उत्पत्तिर्मनुष्यान्प्रति संपद्यते ॥ ८१ ॥

इतरेष्वागमाद्धर्मः पादशस्त्ववरोपितः ।
चौरिकानृतमायाभिर्धर्मश्चापैति पादशः ॥ ८२ ॥

इतरेष्विति ॥ सत्ययुगादन्येषु त्रेतादिषु आगमादधर्मेण धनविद्यादेरर्जनात्तस्यैव पूर्वश्लोके प्रकृतत्वात् । आगमावदादिति तु गोविन्दराजो मेधातिथिश्च । धर्मो