पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


त्रिना- .२० मनुस्मृतिः। [ अध्यायः १

तद्वै युगसहस्रान्तं ब्राह्मं पुण्यमहर्विदुः।
रात्रिं च तावतीमेव तेऽहोरात्रविदो जनाः ॥ ७३ ॥

तद्वै युगेति ॥ युगसहस्रणान्तः समाप्तिर्यस्य नद्राह्ममहस्तन्यरिमाणां च रात्रि ये जानन्ति तेऽहोरात्रज्ञा इति स्तुतिरियम् । स्तुत्या च ब्राह्ममहोरात्रं ज्ञातव्यमिति विधिः परिकल्प्यते । अत एतत्पुण्यहेतुत्वात्पुण्यमिति विशेषणं कृतम् ॥ ७३ ।।

तस्य सोऽहर्निशस्यान्ते प्रसुप्तः प्रतिबुध्यते ।
प्रतिबुद्धश्च सृजति मनः सदसदात्मकम् ॥ ७४ ॥

तस्येति ॥ स ब्रह्मा तस्य पूर्वोक्तस्य स्वीयाहोरात्रस्य समाप्तौ प्रतिबुद्धो भवति प्रतिबुद्धश्च स्वीयं मनः सृजति भूलॊकादित्रयसृष्टये नियुङ्क्ते नतु जनयति । तस्य महाप्रलयानन्तरं जातत्वादनष्टत्वाच्च । अवान्तरप्रलये भूलोकाडिनयमानन गात् सृष्टयथै मनोनियुक्तिरेव मनावृष्टिः । तथाच पुराणे श्रूयते-'मनः सिसृक्षया युक्तं सर्गाय निदधे पुनः' इति । अथवा मनःशब्दोऽयं महत्तत्त्वपर एव । यद्यपि तन्महाप्रलयानन्तरमुत्पन्नं, महान्तमेव चेत्यादिना सृष्टिरपि तस्योक्ता, तथाप्यनुक्तं भूतानामुत्पत्तिक्रमं तद्गुणांश्च कथयितुं महाप्रलयानन्तरितामेव महदादिसृष्टिं भूतसृष्टिं च हिरण्यगर्भस्यापि परमार्थत्वात्तत्कर्तृतामनुवदति । एतेनेदमुक्तं भवति । ब्रह्मा महाप्रलयानन्तरितसृष्टयादौ परमात्मरूपेण महदादितत्त्वानि जगत्सृष्टयर्थं सृजति । अतएव शेपे वक्ष्यति 'इत्येपा सृष्टिरादितः' इति । अवान्तरप्रलयानन्तरं तु मनःप्रभृतिसृष्टावभिधानक्रमेणैव प्राथम्यप्राप्तिरित्येषा सृष्टिरादित इति निष्प्रयोजनोऽनुवादः स्यात् ॥ ७४ ॥

मनः सृष्टिं विकुरुते चोद्यमानं सिसृक्षया।
आकाशं जायते तस्मात्तस्य शब्दं गुणं विदुः ।। ७५ ॥

भनः सृष्टिमिति ॥ मनो महान्सृष्टिं करोति परमात्मनः स्त्रष्टुमिच्छया प्रेर्यमाणं तस्मादाकाशमुत्पद्यते । तच्च पूर्वोक्तानुसारादहंकारतन्मात्रक्रमेणाकाशस्य शब्द गुणं विदुर्मन्वादयः ॥ ७५ ॥

आकाशात्तु विकुर्वाणात्सर्वगन्धवहः शुचिः।
बलवाञ्जायते वायुः स वै स्पर्शगुणो मतः॥ ७६ ॥

आकाशादिति ॥ आकाशात्तु विकारजनकात्सुरभ्यसुरभिगन्धवहः पवित्रो बलवांश्च वायुरुत्पद्यते । स च स्पर्शाख्यगुणवान्मन्वादीनां संमतः ॥ ७६ ॥

वायोरपि विकुर्वाणाद्विरोचिष्णु तमोनुदम् ।
ज्योतिरुत्पद्यते भास्वत्तद्रूपगुणमुच्यते ॥ ७७॥

वायोरपीति ॥ वायोरपि तेज उत्पद्यते । विरोचिष्णु परप्रकाशकं तमोनाशनं भास्वत्प्रकाशकम् । तच्च गुणरूपमभिधीयते ॥ ७७ ॥