पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अध्यायः १] मन्वर्थमुक्तावलीसंवलिता। १९

ब्राह्मस्येति ॥ ब्रह्मणोऽहोरात्रस्य यत्परिमाणं प्रत्येकं युगानां च कृतादीनां तत्क्रमेण समासतः संक्षेपतः शृणुत । प्रकृतेऽपि कालविभागे यद्ब्रह्मणोऽहोरात्रस्य पृथक् प्रतिज्ञानं तत्तदीयज्ञानस्य पुण्यफलज्ञानार्थम् । वक्ष्यति च 'ब्राझं पुण्यमहर्विदुः' इति । तद्वेदनात्पुण्यं भवतीत्यर्थः ॥ ६८ ॥

चत्वार्याहुः सहस्राणि वर्षाणां तत्कृतं युगम् ।
तस्य तावच्छती संध्या संध्यांशश्च तथाविधः॥६९॥

चत्वार्याहुरिति ॥ चत्वारि वर्षपहस्राणि कृतयुगकालं मन्वादयो वदन्ति । तस्य तावद्वर्षशतानि संध्या संध्यांशश्च भवति । युगस्य पूर्वा संध्या उत्तरश्च संध्यांशः। तदुक्तं विष्णुपुराणे-'तत्यमाणैः शतैः संध्या पूर्वा तत्राभिधीयते । संध्यांशकश्च तत्तुल्यो युगस्यानन्तरो हि यः ॥ संध्यासंध्यांशयोरन्तर्यः कालो मुनिसत्तम ।। युगाख्यः स तु विज्ञेयः कृतत्रेतादिसंज्ञकः ॥' वर्षसंख्या चेयं दिव्यमानेन तस्यैवानन्तरप्रकृतत्वात् । 'दिव्यैर्वर्पसहस्रेस्तु कृतत्रेतादिसंज्ञितम् । चतुर्युगं द्वादशभिस्तद्विभागं निबोध मे ॥' इति विष्णुपुराणवचनाच्च ॥ ६९ ॥

इतरेषु ससंध्येषु ससंध्यांशेषु च त्रिषु ।
एकापायेन वर्तन्ते सहस्राणि शतानि च ॥ ७० ॥

इतरेप्विति ॥ अन्येषु त्रेताहापरकलियुगेषु संध्यासंध्यांशसहितेषु एकहाच्या सहस्राणि शतानि च भवन्ति । तेनैवं संपद्यते। त्रीणि वर्षसहस्राणि त्रेतायुगं, तस्य त्रीणि वर्षशतानि संध्या संध्यांगश्च । एवं दे वर्षसहस्त्रे द्वापरः, तस्य द्वे वर्षशते संध्या संध्यांशश्च । एवं वर्षसहस्रं कलिः, तस्यैकवर्षशतं संध्या संध्यांगश्च ॥७०॥

यदेतत्परिसंख्यातमादावेव चतुर्युगम् ।
एतद्द्वादशसाहस्रं देवानां युगमुच्यते ॥ ७१ ॥

यदेतदिति ॥ एतस्य श्लोकत्यादौ यत्तन्मानुपं चतुर्युगं परिगणितं एतद्देवानां युगमुच्यते । चतुर्युगशब्देन संध्यासंध्यांशयोरप्राप्तिशङ्कायामाह-एतद्द्वादशसाह- स्त्रमिति । स्वार्थेऽण् । चतुर्युगैरेव द्वादशसंख्यैर्दिव्यं युगमिति तु मेधातिथेभेमो नादर्तव्यः । मनुनानन्तरं दिव्ययुगसहस्रेण ब्रह्माहस्याप्यभिधानात् । विष्णुपुराणे च मानुषचतुर्युगसहस्रेण ब्रह्माहकीर्तनान्मानुषचतुर्युगेनैव दिव्ययुगानुगमनात् । तथाच विष्णुपुराणम्-'कृतं त्रेता द्वापर च कलिश्चेति चतुर्युगम् । प्रोच्यते तत्सहस्रं तु ब्रह्मणो दिवसो मुने' ॥ ७१ ॥

दैविकानां युगानां तु सहस्रं परिसंख्यया ।
ब्राह्ममेकमहर्जेयं तावतीं रात्रिमेव च ॥ ७२ ॥

दैविकानामिति ॥ देवयुगानां सहस्रं ब्राह्मदिनं ज्ञातव्यम् । सहस्रमेव रात्रिः। परिसंख्ययेति श्लोकपूरणोऽर्थानुवादः ॥ ७२ ॥