पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मनुस्मृतिः। [ अध्यायः १२ सारासारवचःप्रपञ्चनविधौ नेधातिथेश्चातुरी स्तोकं वस्तु निगूडमल्पबचनागोविन्दराजो जगौ । ग्रन्थेऽसिन्धरणीधरय बहुशः स्वातन्त्र्यमेतावता स्पष्टं मानवमर्थतत्त्वमखिलं वंतु कृतोऽयं श्रमः ॥ ५ ॥ प्रायो मुनिभिर्विवृतं कथयत्येपा मनुस्मृतेरर्थम् । दशभिर्ग्रन्थसहत्रैः सप्तदशयुता कृता वृत्तिः ॥ २ ॥ सेयं मया मानवधर्मशास्त्रे व्यधायि बृत्तिर्विदुपां हिताय । दुबौधजाते?रितक्षयाय भूयात्ततो मे जगतामधीशः ॥३॥ इति वारेन्द्रिनन्दनावासीयदिवाकरात्नजश्रीमत्कु लकभट्टविरचितायां मन्वर्थमुत्तावल्यां मनुवृत्तौ द्वादशोऽध्यायः समाप्तः ॥ १२ ॥ इति श्रीकुलुकभट्टविरचिता मन्वर्थमुक्तावली समासा ॥