पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १२] मन्वर्थमुक्तावलीसंवलिता। एतनिति ॥ एतं च परमात्मानमग्नित्वेनैके याज्ञिका उपासते। तथा तमेकमग्नि- मित्यध्वर्यव उपासते। अन्ये पुनः स्रष्टत्वात्स्स्रष्ट्राख्यप्रजापतिरूपतयोपासते । एके पुनरैश्वर्ययोगादिन्द्ररूपतयोपासते। अपरे पुनः प्राणत्वेनोपासते । सर्वाणि भूरादी. नीमानि भूतानि 'प्राणमेवाभिसंविशन्ति प्राणमभ्युजिहतः' इत्यादिश्रुतिदर्श नात् । अपरे पुनरपगतप्रपञ्चात्मकं सच्चिदानन्दस्वरूपं परमात्मानमुपासते । मूर्ता- मूर्तस्वरूपे च ब्रह्मणि सर्वा एवोपासनाः श्रुतिप्रसिद्धा भवन्ति ॥ १२३ ॥ एष सर्वाणि भूतानि पञ्चभिर्व्याप्य मूर्तिभिः । जन्मद्धिक्षयनित्यं संसारयति चक्रवत् ॥ १२४ ॥ एवमिति ॥ एष आत्मा सर्वान्प्राणिनः पञ्चभिः पृथिव्यादिभिर्महाभूतः शरीरा- रम्भकैः परिगृह्य पूर्वजन्मार्जितकर्मापेक्षयोत्पत्तिस्थितिविनाशै रथादिचक्रवदसकृदु- पावर्तमानैरामोक्षासंसारिणः करोति ॥ १२४ ॥ इदानीं मोक्षत्वेनोक्तसर्वधर्मश्रेष्ठतया सर्वत्र परमात्मदर्शनमनुष्ठेयत्वेनोप- संहरति- एवं यः सर्वभूतेषु पश्यत्यात्मानमात्मना । स सर्वसमतामेत्य ब्रह्माभ्येति परं पदम् ॥ १२५ ॥ [चतुर्वेदसमं पुण्यमस्य शास्त्रस्य धारणात् । भूयो वाण्यतिरिच्येत पापनिर्यातनं महत् ॥ यवं यः सर्वभूतेविति ॥ एवं सर्वभूतेषु चात्मानम्' इत्याद्युक्तप्रकारेण यः सर्वेषु भूतेप्ववस्थितमात्मानमात्मना पश्यति स ब्रह्मसाक्षात्कारात्परं श्रेष्ठं पदं स्थानं ब्रह्म प्रायोति । तत्रात्यन्तं लीयते मुक्तो भवतीत्यर्थः ॥ १२५ ॥ इत्येतन्मान शास्त्रं भृगुप्रोक्तं पठन्द्विजः। भवत्याचारवान्नित्यं यथेष्टां प्राप्नुयाद्गतिम् ॥ १२६ ॥ [मनुः खायंभुवो देवः सर्वशास्त्रार्थपारगः । तस्यास्वनिर्गतं धर्म विचार्य बहुविस्तरात् ॥ ये पठन्ति द्विजाः केचित्सर्वपापोपशान्तिदम् । ते गच्छन्ति परं स्थानं ब्रह्मणः सम शाश्वतम् ॥] इति मानवे धर्मशाखे भृगुप्रोक्तायां संहितायां द्वादशोऽध्यायः ॥ १२ ॥ इत्येतदिति ॥ समाप्त्यर्थ इतिशब्दः । एतत्स्मृतिशास्त्रं भृगुणा प्रकर्षणोक्तं द्विजातिः पठन् विहितानुष्टाननिषिद्धवर्जनात्सदाचारवान् भवति । यथापेक्षितां च स्वर्गापवर्गादिरूपां गतिं प्रामुयादिति ॥ २६ ॥