पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५२०

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


४८८ मनुस्मृतिः। [अध्यायः १२ क्षेत्रज्ञादीनां कर्मसंबन्धं जनयति । तथाच श्रुतिः--'एष ह्येव साधु कर्म कारयति यमूर्ध्वं निनीषति । एप ह्येवासाधु कर्म कारयति यमधो निनीषति' इति ॥ ११९॥ इदानीं वक्ष्यमाणब्रह्मध्यानविशेषोपयोगितया दैहिकाकाशादिषु बाह्याकाशा- दीनां लयमाह- खं संनिवेशयेत्स्वेषु चेष्टनस्पर्शनेऽनिलम् । पक्तिदृष्टयोः परं तेजः स्नेहेऽपो गां च मूर्तिषु ॥ १२० ॥ मनसीन्दं दिशः श्रोत्रे क्रान्ते विष्णुं बले हरम् । वाच्यग्निं मित्रमुत्सर्गे प्रजने च प्रजापतिम् ॥ १२१ ॥ खमिति ॥ मनसीति ॥ बाह्याकाशमुदराद्यवच्छिन्नशरीराकाशेषु लीनमेकत्वेन धारयेत् । तथा चेष्टास्पर्शकारणभूतदैहिकवायौ बाह्यवायुं, औदर्यचाक्षुषतेजसोर- ग्निसूर्ययोः प्रकृष्टं तेजः, दैहिकास्वप्सु बाह्या अपः बाह्याः पृथिव्यादयः शरी- रपार्थिवभागेषु, मनसि चन्द्रं, श्रोत्रे दिशः, पादेन्द्रिये विष्णुं, बले हरं, वागि- न्द्रियेऽग्निं, पारिवन्द्रिये मित्रं, उपस्थेन्द्रिये प्रजापतिं लीनमेकत्वेन भावयेत् 2 ॥२०॥ १२१॥ प्रशासितारं सर्वेषामणीयांसमणोरपि । रुक्माभं स्वप्नधीगम्यं विद्यात्तं पुरुषं परम् ॥ १२२ ॥ प्रशासितारमिति ॥ एवमाध्यात्मिकभूतादिकं लीनमेकत्वेन भावयित्वा प्रशासितारं नियन्तारं ब्रह्मादिस्तम्बपर्यन्तस्य चेतनाचेतनस्य जातेोऽयमन्यादी- नामौष्ण्यादिनियमो यश्चादित्यादीनां भ्रमणादिनियमो यच्च कर्मणां फलं प्रति- नियतमेतत्सर्वं परमात्माधीनम् । तथाच 'एतस्यैवाऽक्षरस्य प्रशासने गार्गी- त्याद्युपनिषदः । तथा 'भयादस्याग्निस्तपति भयात्तपति सूर्यः । भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः' इति । तथा अणोरणीयांसं सर्वात्मत्वात् । तथाच श्रुतिः-'बालाग्रशतभागस्य शतधा कल्पितस्य च । भागो जीवेति विज्ञेयः स चानन्त्याय कल्पते ॥' रुक्मानं यद्यपि 'अशब्दमस्पर्शमरूपमव्ययम्' इत्याधुप- निषदा रूपं परमात्मनो निषिद्धं तयाप्युपासनाविशेपे शुद्धसुवर्णाभम् ॥ अतएव 'य एषोऽन्तरादित्ये हिरण्मय' इत्यादि छान्दोग्योपनिषत् । स्वमधीगम्यं । दृष्टान्तोऽयं स्वप्नधीसदृशज्ञानग्राह्यम् । यथा स्वप्नधीश्चक्षुरादिबाह्येन्द्रियोपरमे मनोमात्रेण जन्यत एवमात्मधीरपि । अतएव व्यासः 'नवासो चक्षुषा ग्राह्यो न च शिष्टैरपी- न्द्रियैः । मनसा तु प्रसन्नेन गृह्यते सूक्ष्मदर्शिभिः ॥' एवंविधं परात्मानमनु- चिन्तयेत् ॥ १२२ ॥ एतमेके वदन्त्यग्निं मनुमन्ये प्रजापतिम् । इन्द्रमेके परे प्राणमपरे ब्रह्म शाश्वतम् ॥ १२३ ॥