पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १२] मन्वर्थमुक्तावलीसंवलिता। ४८७ अवतानाममन्त्राणां जातिमात्रोपजीविनाम् । सहस्रशः समेतानां परिपत्वं न विद्यते ॥ ११४ ॥ अवतानामिति ॥ सावित्र्यादिब्रह्मचारिबतरहितानां, मन्त्रवेदाध्ययनरहितानां, ब्राह्मणजातिमात्रधारिणां, बहूनामपि मिलितानां परिपत्वं नास्ति । धर्मनिर्णयसा- मयाभावात् ॥ ११४ ॥ यं वदन्ति तमोभूता मूखी धर्ममतद्विदः । तत्पापं शतधा भूत्वा तद्वत्कृननुगच्छति ॥ ११५ ॥ य वदन्तीति ॥ तमोगुणवहुला मूर्खाः धर्मप्रमाणवेदार्थानभिज्ञा अतएव प्रश्न- विषयधर्माविद. प्रायश्चित्तादिधर्म यं पुरुपं प्रत्युपदिशन्ति तदीयं पापं शतगुणं भूत्वा वाचकान्बहून् भजेत् ॥ ११५॥ एतद्वोऽभिहितं सर्व निःश्रेयसकरं परम् । असादपच्युतो विप्रः प्राप्नोति परमां गतिम् ॥ ११६ ॥ गुतद इति ॥ एतन्निःश्रेयससाधकं प्रकृष्टं धर्मादिकं सर्व युप्माकमभिहितम् । एतदनुतिष्ठन्ब्राह्मणादिः परमां गतिं स्वर्गापवर्गरूपां प्राप्नोति ॥ १६ ॥ एवं स भगवान्देवो लोकानां हितकाम्यया । धर्मस्य परमं गुह्यं ममेदं सर्वमुक्तवान् ॥ ११७ ॥ सुवमिति ॥ स भगवानैश्वर्यादिसंयुक्तो द्योतनाहेबो मनुरुक्तप्रकारेणेदं सर्व धर्मस्य परमार्थ शुश्रूपुशिप्येभ्यः अगोपनीयं लोकहितेच्छया ममेदं सर्वमुकवा- निति भृगुमहर्षीनाह ॥ ११७ ॥ मुवमुपसंहृत्य महीणां हितायोक्तमयात्मज्ञानं प्रकृष्टमोझोपकारकतया पृथकृत्याह- सर्वमात्मनि संपश्येत्सचासच समाहितः। सर्व ह्यात्मनि संपश्यन्नाधर्मे कुरुते मनः ॥ ११८ ॥ सार्वमिति ॥ सद्भावमसद्भावं सर्व ब्राह्मणो जानन् ब्रह्मस्वरूपमात्मन्युपस्थित तदात्मकमनन्यमना ध्यानप्रकर्षण साक्षात्कुर्यात् । यस्मात्सर्वमात्मत्वेन पश्यन्राग- द्वेषाभावादधर्मे मनो न कुरुते ॥ ११८ ॥ गुतदेव स्पष्टयति- आत्मैव देवताः सर्वाः सर्वमात्मन्यवस्थितम् । आत्मा हि जनयत्येषां कर्मयोगं शरीरिणाम् ॥ ११९ ॥ आत्मैवेति ॥ इन्द्राद्याः सर्वदेवताः परमात्मैव सर्वात्मत्वात्परमात्मनः । सर्व जगदात्मन्येवावस्थितं परमात्मपरिणामत्वात् । हिरवधारणार्थे । परमात्मैवैषां