पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८६ मनुस्मृतिः । [अध्यायः १२ कथं कर्तव्यं स्यादिति यदि संशयो भवेत्तदा यं धर्मं वक्ष्यमाणलक्षणाः शिष्टा ब्राह्मणा ब्रूयुः स तत्र निश्चितो धर्मः स्यात् ॥ १०८ धर्मेणाधिगतो यैस्तु वेदः सपरिहणः। ते शिष्टा ब्राह्मणा ज्ञेयाः श्रुतिप्रत्यक्षहेतवः ॥ १०९ ॥ धर्मेणेति ॥ ब्रह्मचर्यायुक्तधर्मेण यैरङ्गमीमांसाधर्मशास्त्रपुराणाद्युपञ्बंहितो वेदो- धिगतस्ते ब्राह्मणाः श्रुतेः प्रत्यक्षीकरणे हेतवः, ये श्रुति पठित्वा तदर्थमुपदिशन्ति ते शिष्टा विज्ञेयाः ॥ १०९ ॥ दशावरा वा परिषद्यं धर्म परिकल्पयेत् । त्र्यवरा वापि वृत्तस्था तं धर्म न विचालयेत् ॥ ११ ॥ [पुराणं मानवो धर्मो साङ्गोपाङ्गचिकित्सकः । आज्ञासिद्धानि चत्वारि न हन्तव्यानि हेतुभिः॥ दशेति ॥ यदि बहवः सन्तोऽवहिता न भवन्ति तदा दशावराज्यवराश्चेति वक्ष्यमाणलक्षणा यस्याः सा परिषत् तदभावे त्रयोऽवरा यस्याः सा वा सदाचारा यं धर्म निश्चिनुयात्तं धर्मत्वेन स्वीकुर्यान्न विसंवदेत् ॥ ११० ॥ विद्यो हेतुकस्ती नैरुक्तो धर्मपाठकः । त्रयश्चाश्रमिणः पूर्वे परिषत्स्याद्दशावरा ॥ १११ ॥ त्रैविद्य इति ॥ वेदत्रयसंबन्धशाखात्रयाध्येतारः, श्रुतिस्मृत्यविरुद्धन्यायशास्त्रज्ञः, मीमांसात्मकतर्कवित् , निरुक्तज्ञः, मानवादिधर्मशास्त्रवेदी, ब्रह्मचारी, गृहस्थवान- प्रस्थौ इत्येषां दशावरा परिषत्स्यात् ॥ ११ ॥ ऋग्वेदविद्यजुर्विच्च सामवेदविदेव च । त्र्यवरा परिषज्ज्ञेया धर्मसंशयनिर्णये ॥ ११२ ॥ ऋग्वेदविदिति ॥ ऋग्यजुःसामवेदशाखानां येऽध्येतारस्तदर्थज्ञाश्च त्रयः सा धर्मसंदेहनिरासाथै त्र्यवरा परिपद्धोद्धव्या ॥ ११२ ॥ एकोऽपि वेदविद्धर्म यं व्यवस्थेविजोत्तमः। स विज्ञेयः परो धर्मो नाज्ञानामुदितोऽयुतैः॥११३ ॥ तदभावे एकोऽपीति ॥ एकोऽपि वेदार्थधर्मज्ञो यं धर्म निश्चिनुयात् प्रकृष्टो धर्मः स बोद्धव्यो न वेदानभिज्ञानां दशभिः सहस्रैरप्युक्तः । वेदविच्छब्दोऽयं वेदार्थधर्मज्ञपरः । एतच्च श्रेष्ठोपलक्षणम् । स्मृतिपुराणमीमांसान्यायशास्त्र- ज्ञोपि गुरुपरंपरोपदेशविच्च ज्ञेयः । तथा 'केवलं शास्त्रमाश्नित्य न कर्तव्यो विनि- र्णयः । युक्तिहीनविचारे तु धर्महानिः प्रजायते । तेन बहुस्मृतिज्ञोऽपि यदि सम्यक् प्रायश्चित्तादिधर्म जानाति तदा तेनाप्येकन धर्म उक्तः प्रकृष्टो धर्मो ज्ञेयः । अतएव यमः-'एको द्वौ वा त्यो वापि यद्र्युर्धर्मपाठकाः । स धर्म इति विज्ञेयो नेतरेषां सहस्रशः ॥' ॥ ११३ ॥