पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५१७

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


अध्यायः १२] मन्वर्थमुक्तावलीसंवलिता। ४८५ अज्ञेभ्य इति ॥ उभयोः प्रशस्यत्वे सत्यन्यतरातिशयविवक्षायां श्रेष्ट इतीष्ठनो विधानादीषदध्ययना अज्ञास्तेभ्यः समग्रग्रन्थाध्येतारः श्रेष्टाः । तेभ्योऽधीतग्रन्थ- धारणसमर्थाः श्रेष्ठाः । तेन ग्रन्थिनः पठितविस्मृतग्रन्था बोद्धव्याः । धारिभ्यो- ऽधीतग्रन्थार्थज्ञाः प्रकृष्टास्तेभ्योऽनुष्टातारः॥ १०३ ॥ तपो विद्या च विप्रस्य निःश्रेयसकरं परम् । तपसा किल्बिषं हन्ति विद्ययाऽमृतमश्नुते ॥ १०४ ॥ तप इति ॥ तपः स्वधर्मवृत्तित्वमिति भारतदर्शनात् आश्रमविहितं कर्म आ- स्मज्ञानं च ब्राह्मणस्य मोक्षसाधनम् । तत्र तपसोऽवान्तरव्यापारमाह । तपसा पापमपहन्ति । ब्रह्मज्ञानेन मोक्षमामोति । तथाच श्रुतिः--'विद्यां चाविद्यां च यस्तद्वेदोभयं सह । अविद्यया मृत्यु तीर्खा विद्ययाऽमृतमश्नुते' विद्यातो- ऽन्यदविद्या कर्म मृत्युवहुःखसाधनत्वान्मृत्युः पापं । श्रुत्यर्थ एवायं मनुना व्याख्यायोक्तः ॥ १०४॥ प्रत्यक्षं चानुमानं च शास्त्रं च विविधागमम् । त्रयं सुविदितं कार्य धर्मशुद्धिमभीप्सता ॥ १०५ ॥ प्रत्यक्षमिति ॥ धर्मस्य तत्त्वावबोधमिच्छता प्रत्यक्षमनुमानं च धर्मसाधनभूतद- व्यगुणजातित्वज्ञानाय शास्त्रं च वेदमूलं स्मृत्यादिरूपं नानाप्रकारधर्मस्वरूप- विज्ञानाय सुविदितं कर्तव्यं । तदेव च प्रमाणत्रयं मनोरभिमतम् । उपमानार्थीप- यादेश्वानुमानान्तर्भावः ॥ १०५ ॥ आर्ष धर्मोपदेशं च वेदशास्त्राऽविरोधिना । यस्तर्केणानुसंधत्ते स धर्म वेद नेतरः॥१०६ ॥ आर्षमिति ॥ ऋषिदृष्टत्वादार्ष वेदं धर्मोपदेशं च तन्मूलस्मृत्यादिकं यस्त- दविरुद्धेन मीमांसादिन्यायेन विचारयति स धर्म जानाति नतु मीमांसान- भिज्ञः । धर्मे करणं वेदः, मीमांसा चेतिकर्तव्यतास्थानीया । तदुक्तं भट्ट- वार्तिककृता-धर्मे प्रमीयमाणे हि वेदेन करणात्मता । इतिकर्तव्यतामागं मीमांसा पूरयिष्यति' ॥ १०६ ॥ नैःश्रेयसमिदं कर्म यथोदितमशेषतः। मानवस्यास्य शास्त्रस्य रहस्यमुपदिश्यते ॥ १०७ ॥ नैःश्रेयसमिति ॥ एतन्निःश्रेयससाधनं कर्म निःशेषेण यथावदुदितम् । अत ऊर्ध्वमस्य मानवशास्त्रस्य रहस्यं गोपनीयमिदं वक्ष्यमाणं शृणुत ॥ १०७ ॥ अनाम्नातेषु धर्मेषु कथं स्यादिति चेद्भवेत् । यं शिष्टा ब्राह्मणा ब्रूयुः स धर्मः स्वादशङ्कितः ॥ १०८।। अनाम्नातेष्विति ॥ अस्य शास्त्रस्यासमस्तधर्माभिधानमाशङ्क्यानया सामान्यो- क्त्या समग्रधर्मोपदेशकत्वं बोधयति । सामान्यविधिप्राप्तेषु विशेषेणानुपदिष्टेषु