पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। मनुस्मृतिः। [अध्यायः १२ ध्यति । ब्राह्मणीभूतमातापितृजनितत्वमिति तदुपजीवितया स्वर्गादिलोकोऽपि वेदादेव प्रसिद्धः । एवं ब्रह्मचर्याद्याश्रमा अपि चत्वारो वेदमूलकत्वाद्वेदादेव प्रसिध्यन्ति । किं बहुना । यत्किंचिदतीतं वर्तमानं भविष्यं च तत्सर्वं 'अग्नौ प्रास्ताहुतिः सम्यग्' इत्यादिन्यायेन वेदादेव प्रसिध्यति ॥ ९७ ॥ शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः। वेदादेव प्रसूयन्ते प्रमूतिगुणकर्मतः॥९८॥ शब्द इति ॥ य इह लोके परलोके च शब्दादयो विषयाः प्रसूयन्ते प्रयुज्यन्ते एतैरिति प्रसूतयः प्रसूतयश्च गुणाश्चेति सत्वरजस्तमोरूपाः तन्निबन्धनवैदिककर्म- हेतुत्वाद्वेदादेव प्रसिध्यन्ति ॥ ९८ ॥ विभर्ति सर्वभूतानि वेदशास्त्रं सनातनम् । तस्मादेतत्परं मन्ये यजन्तोरस्य साधनम् ॥ ९९ ॥ बिभर्तीति ॥ वेदशास्त्रं नित्यं सर्वभूतानि धारयति । तथाच 'हविरग्नौ हूयते सोऽग्निरादित्यमुपसर्पति तत्सूर्यो रश्मिभिर्वर्षति तेनान्नं भवति अथेह भूता- नामुत्पत्तिस्थितिश्चेति हविर्जायते' इति ब्राह्मणम् । तस्माद्वेदशास्त्रमन्य जन्तो- वैदिककर्माधिकारिपुरुषस्य प्रकृष्टं पुरुषार्थसाधनं जानन्ति ॥ ९९ ॥ सेनापत्यं च राज्यं च दण्डनेतृत्वमेव च । सर्वलोकाधिपत्यं च वेदशास्त्रविदहति ॥१०॥ सेनापत्यमिति ॥ सेनापत्यं, राज्यं, दण्डप्रणेतृत्वं, सर्वभूम्याधिपत्यादीन्येतत्स- वमुक्तप्रयोजनं वेदात्मकशास्त्रज्ञ एवार्हति ॥ १० ॥ यथा जातवलो वह्निर्दहत्यानपि दुमान् । तथा दहति वेदज्ञः कर्मजं दोषमात्मनः॥१०१॥ [न वेदबलमाश्रित्य पापकर्मरुचिर्भवेत् । अज्ञानाच्च प्रमादाच्च दहते कर्म नेतरत् ॥] यथेति ॥ यथा वृद्धोऽग्निरानपि द्रुमान्दहत्येवं ग्रन्थतोऽर्थतश्च वेदज्ञः प्रति- षिद्धाद्याचरणादिकर्मजनितं पापमात्मनो नाशयति । एवंच न वेदः केवलं स्वर्गा- पवर्गादिहेतुः किं त्वहितनिवृत्तिहेतुरिति दर्शितः ॥ १० ॥ वेदशास्त्रार्थतत्त्वज्ञो यत्र तत्राश्रमे वसन् । इहैव लोके तिष्ठन्स ब्रह्मभूयाय कल्पते ॥१०२॥ वेदशास्त्रार्थेति ॥ यस्तत्त्वतो वेदं तदर्थं च कर्म ब्रह्मात्मकं जानाति स नित्यनै- मित्तिककर्मानुगृहीतब्रह्मज्ञानेन ब्रह्मचर्याद्याश्रमावस्थितोऽस्मिन्नेव लोके तिष्ठन् ब्रह्मत्वाय कल्पते ॥ १०२॥ अज्ञेभ्यो ग्रन्थिनः श्रेष्ठा ग्रन्थिभ्यो धारिणो वराः। धारिभ्यो ज्ञानिनः श्रेष्ठा ज्ञानिभ्यो व्यवसायिनः॥१०३॥