अध्यायः १]] मन्वर्थमुक्तावलीसंवलिता। १७.
कर्मवायवः । अविद्या चाष्टकं प्रोक्तं पुर्यष्टमृपिसत्तमैः ॥' ब्रह्मपुराणेऽप्युक्तम्- 'पुर्यष्टकेन लिङ्गेन प्राणाद्येन स युज्यते । तेन बद्धस्य वै बन्धो मोक्षो मुक्तस्य तेन तु ।।' यदाणुमात्रिको भूत्वा संपद्य स्थास्नु वृक्षादिहेतुभूतं, चरिष्णु मानुषादिकारणं बीजं प्रविशत्यधितिष्ठति तदा संसृष्टः पुर्यष्टकयुक्तो मूर्ति स्थूलदेहान्तरं कर्मानुरूपं विमुञ्चति गृह्णाति ॥ ५६ ॥
प्रासङ्गिकं जीवस्योत्क्रमणमभिधाय प्रकृतमुपसंहरति-
एवं स जाग्रत्स्वप्नाभ्यामिदं सर्वं चराचरम् । |
एवं स जाग्रत्स्वप्नाभ्यामिति ॥ स ब्रह्मा अनेन प्रकारेण स्वीयजाग्रत्स्वमाभ्यामिदं स्थावरजङ्गमं संजीवयति मारयति च। अजस्रं सततम् । अव्ययः अविनाशी ॥५७॥
इदं शास्त्रं तु कृत्वासौ मामेव स्वयमादितः। |
इदं शास्त्रमिति ॥ असौ ब्रह्मा इदं शास्त्रं कृत्वा सृष्टयादौ मामेव विधिवच्छास्त्रोताङ्गजातानुष्ठानेनाध्यापितवान् । अहं तु मरीच्यादीनध्यापितवान् ॥ ननु ब्रह्मकृतत्वेऽस्य शास्त्रस्य कथं मानवव्यपदेशः । अत्र मेधातिथिः । शास्त्रशब्देन शास्त्रार्थो विधिनिषेधसमूह उच्यते । तं ब्रह्मा मनुं ग्राहयामास। मनुस्तु तत्प्रतिपादकं ग्रन्थं कृतवानिति न विरोधः । अन्ये तु ब्रह्मकृतत्वेऽप्यस्य मनुना प्रथमं मरीच्यादिभ्यः स्वरूपतोऽर्थतश्च प्रकाशितत्वान्मानवव्यपदेशःवेदापौरुषेयत्वेऽपि काठकादिव्यपदेशवत् । इदं तूच्यते । ब्रह्मणा शतसाहस्रमिदं धर्मशास्त्रं कृत्वा मनुरध्यापित आसीत्ततस्तेन च स्ववचनेन संक्षिप्य शिष्येभ्यः प्रतिपादितमित्यविरोधः । तथाच नारदः शतसाहस्रोऽयं ग्रन्थ इति स्मरति म ॥ ५८ ॥
एतद्वोऽयं भृगुः शास्त्रं श्रावयिष्यत्यशेषतः। |
एतद्वोऽयमित्यादि ॥ एतच्छास्त्रमयं भृगुः युप्माकमखिलं कथयिष्यति । यस्मादेषोऽशेपमेतन्मत्तोऽधीतवान् ॥ ५९ ॥
ततस्तथा स तेनोक्तो महर्षिर्मनुना भृगुः । |
ततस्तथेति ॥ स भृगुर्मनुना तथोक्तोऽयं श्रावयिष्यतीति यस्मादेषोऽधिजग इत्युक्तस्ततोऽनन्तरमनेकमुनिसंनिधौ गुरुसंभावनया प्रीतमनास्तानृषीन्प्रत्युवाच श्रूयतामिति ॥ ६०॥
स्वायंभुवस्यास्य मनोः षड्वंश्या मनवोऽपरे । |