पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७६ मनुस्मृतिः। [ अध्यायः १२ एष सर्वः समुद्दिष्टस्त्रिप्रकारस्य कर्मणः । त्रिविधस्विविधः कृत्स्नः संसारः सार्वभौतिकः॥५१॥ एष इति ॥ एष मनोवाक्कायरूपत्रयभेदेन त्रिप्रकारस्य कर्मगः सत्त्वरजस्तमोभे- देन त्रिविधः पुनः प्रथममध्यमोत्तमभेदेन त्रिविधः सर्वप्राणिगतः समग्रो गतिवि- दोषः कात्स्येनोक्तः । सार्वभौतिक इत्यभिधानादनुक्ता अप्यन गतयो द्रष्टव्याः । इना गतयस्तु प्रदर्शनार्थाः ॥ ५१ ॥ इन्द्रियाणां प्रसङ्गेन धर्मस्वासेवनेन च । पापान्संयान्ति संसारानविद्वांसो नराधमाः ॥५२॥ इन्द्रियाणामिति ॥ इन्द्रियाणां विषयेषु प्रसङ्गेन निषिद्धाचरणेन च प्रायश्वि- नादिधर्मानुष्ठानेन मूढा मनुष्यापसदाः कुत्सिता गतीः प्राप्नुवन्ति ॥ ५२ ॥ यां यां योनि तु जीवोऽयं येन येनेह कर्मणा । क्रमशो याति लोकेऽसिंस्तत्तत्सर्व निबोधत ॥ ५३॥ यां यामिति ॥ अयं जीवो येन येन पापेन कर्मणा इह लोके कृतेन यद्यजन्म प्राप्नोति तत्सर्व क्रमेण शृणुत ॥ ५३ ॥ बहून्वर्षगणान्धोरान्नरकान्प्राप्य तत्क्षयात् । संसारान्प्रतिपद्यन्ते महापातकिनस्त्विमान् ॥ ५४॥ बहूनिति ॥ ब्रह्महत्यादिमहापातककारिणो बहून्वर्षसहस्रान् भयंकरान्नरका- न्प्राप्य तदुपभोगक्षयादुष्कृतशेषेण वक्ष्यमाणान् जन्मविशेषान्प्राप्नुवन्ति ॥ ५४ ॥ श्वम्करखरोष्ट्राणां गोजाविमृगपक्षिणाम् । चण्डालपुक्कसानां च ब्रह्महा योनिमृच्छति ॥ ५५ ॥ श्वेति॥ कुक्कुरसूकरगर्दभोष्ट्रगोच्छागमेषमृगपक्षिचण्डालानां पुक्कसानां च निषाद- न शूद्रायां जातानां संबन्धिनी जाति ब्रह्महा प्राप्नोति तत्र पापशेषगौरवलाघवा- पेक्षया क्रमेण सर्वयोनिप्राप्तिर्बोद्धव्या । एवमुत्तरत्रापि ॥ ५५ ॥ कृमिकीटपतङ्गानां विभुजां चैव पक्षिणाम् । हिंस्राणां चैव सत्त्वानां सुरापो ब्राह्मणो व्रजेत् ॥५६॥ कृमीति ॥ कृमिकीटशलभानां पुरीषभक्षिणां पक्षिणां हिंसनशीलानां च व्याघ्रादीनां प्राणिनां जातिं सुरापो ब्राह्मणो गच्छति ॥ ५६ ॥ लूताहिसरटानां च तिरश्चां चाम्बुचारिणाम् । हिंस्राणां च पिशाचानां स्तेनो विप्रः सहस्रशः॥ ५७ ।।