अध्यायः १२]]
मन्वर्थमुक्तावलीसंवलिता।
४७५
चारणाश्चेति ॥ चारणा नटादयः, सुपर्णाः पक्षिणः, छद्मना कर्मकारिणः पुरुषाः,
राक्षसाः, पिशाचाश्चेत्येषा तामसीषूत्तमा गतिः ॥ ४४ ॥
झल्ला मल्ला नटाश्चैव पुरुषाः शस्त्रवृत्तयः ।
द्यूतपानप्रसक्ताश्च जघन्या राजसी गतिः॥४५॥
झल्ला इति ॥ झल्ला मल्लाः क्षत्रियाद्रात्यात्सवर्णायामुत्पन्ना दशमाध्यायोक्ता
ज्ञेयाः । तत्र अल्ला यष्टिप्रहरणाः, मल्ला बाहुयोधिनः, रङ्गावतारका नटाः,
शस्त्रजीविद्यूतपानप्रसक्ताश्च पुरुषा अधमा राजसी गतिया ॥ ४५ ॥
राजानः क्षत्रियाश्चैव राज्ञां चैव पुरोहिताः।
वादयुद्धप्रधानाश्च मध्यमा राजसी गतिः॥ ४६॥
राजान इति ॥राजानोऽभिषिक्ता जनपदेश्वराः । तथा क्षत्रिया राजपुरोहिताश्च
शास्त्रार्थकलहप्रियाश्च एषा राजसी गतिमध्यमा बोद्धच्या ॥ ४६॥
गन्धर्वा गुह्यका यक्षा विबुधानुचराश्च ये ।
तथैवाप्सरसः सर्वा राजसीपूत्तमा गतिः॥४७॥
गन्धर्वा इति ॥ गन्धर्वाः, गुह्यकाः, यक्षा जातिविशेषाः पुराणादिप्रसिद्धाः. ये
च देवानुयायिनो विद्याधरादयः, अप्सरसश्च देवगणिकाः सर्वा इत्येषा राजमीमध्य
उत्कृष्टा गतिः॥४७॥
तापसा यतयो विप्रा ये च वैमानिका गणाः।
नक्षत्राणि च दैत्याश्च प्रथमा सात्त्विकी गतिः॥४८॥
तापसा इति ॥ वानप्रस्थाः भिक्षवः, ब्राह्मणाश्च, अप्सरसोव्यतिरिक्ताः पुष्पका-
दिविमानचारिणः, नक्षत्राणि, दैत्याश्चेत्येषा सत्त्वनिमित्ताऽधमा गतिः॥४८॥
यज्वान ऋषयो देवा वेदा ज्योतींषि वत्सराः।
पितरश्चैव साध्याश्च द्वितीया सात्त्विकी गतिः ॥४९॥
यज्वान इति ॥ यागशीलाः, तथर्षयः, देवाः, वेदामिमानिन्यश्च देवता विन-
हवत्य इतिहासप्रसिद्धाः, ज्योतींषि ध्रुवादीनि, वत्सरा इतिहासदृष्ट्या विप्र-
हृवन्तः, पितरः सोमपादयः,
इत्येषा सत्त्वनिमित्ता
मध्यमा गतिः॥४९॥
ब्रह्मा विश्वसृजो धर्मो महानव्यक्तमेव च ।
उत्तमां सात्त्विकीमेतां गतिमाहुर्मनीषिणः ॥ ५० ॥
ब्रह्मेति ॥ चतुर्वदनः, विश्वसृजश्च मरीच्यादयः, धर्मो विग्रहवान् , महान्,
अव्यक्तं च सांख्यप्रसिद्धं च तत्त्वद्वयं, तदधिष्ठातृदेवताद्वयमिह विवक्षितम् ।
अचेतनगुणत्रयमात्रस्योत्तमसात्त्विकगतित्वानुपपत्तेः । एतां चतुर्वदनाद्यात्मिकां
सत्त्वनिमित्तामुत्कृष्टां गतिं पण्डिता वदन्ति ॥ ५० ॥
साध्याश्च
पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५०७
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
