पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७४ मनुस्मृतिः। [ अध्यायः १२ यतिदि ॥ यत्कर्म वेदार्थ सर्वात्मना ज्ञातुमिच्छति, यच्च कर्माचरन्कालत्रयेऽपि न लजति, येन येन कर्मणास्यात्मतुष्टिर्जायते, तत्सत्त्वाख्यस्य गुणस्य लक्षणं ज्ञेयम् ॥ ३७॥ तमसो लक्षणं कामो रजसस्त्वर्थ उच्यते । सत्त्वस्य लक्षणं धर्मः श्रेष्ठयमेषां यथोत्तरम् ॥ ३८ ॥ तमस इति ॥कामप्रधानता तमसो लक्षणम् । अर्थनिष्टता रजसः। धर्मप्रधानता सत्त्वस्य । एषां च कामादीनामुत्तरोत्तरस्य श्रेष्ठत्वम् । कामादर्थः श्रेयानर्थमूलत्वा- कामस्य । ताभ्यां च धर्मस्तन्मूलत्वात्तयोः ॥ ३८ ॥ येन यस्तु गुणेनैषां संसारान्प्रतिपद्यते । तान्समासेन वक्ष्यामि सर्वस्यास्य यथाक्रमम् ॥ ३९ ॥ येनेत्यादि ॥ एषां सत्त्वादीनां गुणानां मध्ये येन गुणेन स्वकार्येण या गती- जीवः प्राप्नोति ताः सर्वस्वास्य जगतः संक्षेपतः क्रमेण वक्ष्यामि ॥ ३९ ॥ देवत्वं सात्त्विका यान्ति मनुष्यत्वं च राजसाः। तिर्यक्त्वं तामसा नित्यमित्येषा त्रिविधा गतिः॥४०॥ देवत्वमिति ॥ ये सत्त्ववृत्ताववस्थितास्ते देवत्वं यान्ति । ये तु रजोवृत्त्यवस्थि- नास्ते मनुष्यत्वम्। ये तमोवृत्तिस्थास्ते तिर्यक्वं चेत्येषा विविधा जन्मप्राप्तिः॥४॥ त्रिविधा त्रिविधैषा तु विज्ञेया गौणिकी गतिः । अधमा मध्यमाग्र्या च कर्मविद्या विशेषतः॥४१॥ त्रिविधेति ॥ या सत्त्वादिगुणत्रयनिमित्ता त्रिविधा जन्मान्तरप्राप्तिरुता सा देशकालादिभेदेन संसारहेतुभूतकर्मभेदाज्ज्ञानभेदाच्चाधममध्यमोत्तमभेदेन पुन- स्त्रिविधा बोद्धव्या ॥ ४१ ॥ स्थावराः कृमिकीटाश्च मत्स्याः सर्पाः सकच्छपाः । पशवश्च मृगाश्चैव जघन्या तामसी गतिः॥४२॥ स्थावरा इति ॥ स्थावरा वृक्षादयः, कृमयः सूक्ष्माः प्राणिनः, तेभ्य ईषत्स्थूलाः कीटाः, तथा मत्स्यसर्पकूर्मपशुमृगाश्चेत्येषा तमोनिमित्ता जघन्या गनिः ॥ ४२ ॥ हस्तिनश्च तुरंगाश्च शूद्रा म्लेच्छाश्च गर्हिताः। सिंहा व्याघ्रा वराहाच मध्यमा तामसी गतिः॥४३॥ हस्तिनश्चेति ॥ हस्त्यश्वशूदम्लेच्छसिंहव्याघ्रसूकराम्तमोगुणनिमित्ता मध्यमा रातिः । गर्हिता इति म्छेच्छानां स्वरूपानुवादः ॥ ४३ ॥ चारणाश्च सुपर्णाश्च पुरुषाश्चैव दाम्भिकाः। रक्षांसि च पिशाचाश्च तामसीत्तमा गतिः॥४४॥