पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७२ मनुस्मृतिः। अध्यायः १२ यो यदेषां गुणो देहे साकल्येनातिरिच्यते । स तदा तद्गुणप्रायं तं करोति शरीरिणम् ॥ २५ ॥ य इति ॥ यद्यपि सर्वमेवेदं त्रिगुणं तथापि यत्र देहे येषां गुणानां मध्ये यो गुणो यदा साकल्येनाधिको भवति तदा तद्गुणलक्षणबहुलं तं देहिनं क्र. रोति ॥ २५॥ संप्रति सत्त्वादीनां लक्षणमाह- सत्त्वं ज्ञानं तमोऽज्ञानं रागद्वेषौ रजः स्मृतम् । एतद्व्याप्तिमदेतेषां सर्वभूताश्रितं वपुः ॥ २६ ॥ सत्वमिति ॥ यथार्थावभासो ज्ञानं तत्सत्त्वत्त्व लक्षणम् । एतद्विपरीतमज्ञानं तन्त्र- मोलक्षणम् । विपादाभिलापं मानलकार्य रजोलक्षणम् । स्वरूपं तु सत्त्वरजस्तमसां प्रीत्यनीतिविषादात्मकं । तथाच पठन्ति प्रीतिविषादात्मकाः प्रकाशवृन्तिनियमा- श्री अन्योन्याभिभवजननमिथुनवृत्तयश्च गुणाः । एतचैपां स्वरूपमनन्तरश्लोकत्रयेय वक्ष्यति । एतेषां सत्त्वादिगुणानामेतज्ज्ञानादि सर्वप्राणिव्यापकं लक्षणम् ॥ २६ ॥ तत्र यत्प्रीतिसंयुक्तं किंचिदात्मनि लक्षयेत् । प्रशान्तमिव शुद्धाभं सत्त्वं तदुपधारयेत् ॥ २७ ॥ तत्रेति ॥ तस्मिन्नात्मनि यत्संवेदनं प्रीतियुक्तं प्रत्यस्तमितक्लेशं प्रकाशरूपमनु- भवेत्तत्सत्त्वं जानीयात् ॥ २७ ॥ यत्तु दुःखसमायुक्तमप्रीतिकरमात्मनः। तद्रजो प्रतिपं विद्यात्सततं हारि देहिनाम् ॥ २८ ॥ यत्त्विति ॥ यत्पुनः संवेदनं दुःखानुविद्धमतएव सत्त्वशुद्धात्मप्रीतेरजनक सर्वदा च शरीरिणां विषयस्पृहोत्पादकं तत्वनिवारकत्वात्प्रतिपक्षं रजो जानी- यात् ॥ २८॥ यत्तु स्यान्मोहसंयुक्तमव्यक्तं विषयात्मकम् । अप्रतय॑मविज्ञयं तमस्तदुपधारयेत् ॥ २९ ॥ यत्त्विति ॥ यत्पुनः सदसद्विवेकशून्यमस्फुटविषयाकारस्वभावमतर्कणीयस्वरू- पमन्तःकरणबहिःकरणाभ्यां दुर्भातं तत्तमो जानीयात् । एषां च गुणानां स्वरूप- कथनं सत्त्ववृत्त्यवस्थितौ यत्नवता भवितव्यमित्येतत्प्रयोजनकम् ॥ २९ ॥ त्रयाणामपि चैतेषां गुणानां यः फलोदयः। अग्र्यो मध्यो जघन्यश्च तं प्रवक्ष्याम्यशेषतः॥ ३०॥ त्रयाणामिति ॥ एतेषां सत्त्वादीनां त्रयाणामपि गुणानां यथाक्रममुत्तममध्य- माधमरूपो यः फलोत्पादकस्तं विशेषेण वक्ष्यामि ॥ ३० ॥