पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१६ मनुस्मृतिः। [अध्यायः १

अत्र हेतुमाह-

यदा स देवो जागर्ति तदेदं चेष्टते जगत् ।
यदा स्वपिति शान्तात्मा तदा सर्वं निमीलति ॥५२॥

यदेति ॥ यदा स प्रजापतिजागर्ति सृष्टिस्थिती इच्छति तदेवं जगत् श्वासप्रश्वासाहारादिचेष्टां लभते । यदा स्वपिति निवृत्तेच्छो भवति तदा शान्तात्मा उपसंहारमनाः तदेदं जगत्प्रलीयते ॥ ५२ ॥

पूर्वोक्तमेव स्पष्टयति-

तस्सिन्स्वपति सुस्थे तु कर्मात्मानः शरीरिणः ।
खकर्मभ्यो निवर्तन्ते मनश्च ग्लानिमृच्छति ॥ ५३ ॥

तस्मिन्स्वपतीति ॥ तस्मिन्प्रजापतौ निवृत्तेच्छे सुस्थे उपसंहृतदेहमनोव्यापारे कर्मलब्धदेहाः क्षेत्रज्ञाः स्वकर्मभ्यो देहग्रहणादिभ्यो निवर्तन्ते । मनः सर्वेन्द्रियसहितं वृत्तिरहितं भवति ॥ ५३ ॥

इदानीं महाप्रलयमाह-

युगपत्तु प्रलीयन्ते यदा तस्मिन्महात्मनि ।
तदायं सर्वभूतात्मा सुखं स्वपिति निर्वृतः॥५४॥

युगपत्त्विति ॥ एकस्मिन्नेव काले यदा तस्मिन्परमात्मनि सर्वभूतानि प्रलयं यान्ति तदायं सर्वभूतानामात्मा निर्वृतः निवृत्तजाग्रत्स्वप्नव्यापारः सुखं स्वपिति सुषुप्त इव भवति । यद्यपि नित्यज्ञानानन्दस्वरूपे परमात्मनि न सुष्वापस्तथापि जीवधर्मोऽयमुपचर्यते ॥ ५४ ॥

इदानीं प्रलयप्रसङ्गेन जीवस्योत्क्रमणमपि श्लोकद्वयेनाह-

तमोऽयं तु समाश्रित्य चिरं तिष्ठति सेन्द्रियः।
न च खं कुरुते कर्म तदोकामति मूर्तितः ॥ ५५ ॥

तमोऽयमिति ॥ अयं जीवस्तमो ज्ञाननिवृत्तिं प्राप्य बहुकालमिन्द्रियादिसहितस्तिष्ठति न चात्मीयं कर्म श्वासप्रश्वासादिकं करोति तदा मूर्तितः पूर्वदेहादुकत्क्रमति अन्यत्र गच्छति । लिङ्गशरीरावच्छिन्नस्य जीवस्य उगमात्तद्गमनमप्युपपद्यते । तथाचोक्तं बृहदारण्यके-'तमुत्क्रामन्तं प्राणोऽभूत्क्रामति । प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति ' । प्राणा इन्द्रियाणि ॥ ५५ ॥

कदा देहान्तरं गृह्णातीत्यत आह-

यदाणुमात्रिको भूत्वा बीजं स्थास्नु चरिष्णु च ।
समाविशति संसृष्टस्तदा मूर्तिं विमुञ्चति ॥ ५६ ॥

यदाणुमात्रिक इति ॥ अणवो मात्राः पुर्यष्टकरूपा यस्य सोऽणुमात्रिकः । पुर्यटकशब्देन भूतादीन्यष्टावुच्यन्ते । तदुक्तं सनन्देन–'भूतेन्द्रियमनोर्बुद्धिवासना-