पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४९७

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


अध्यायः ११] मन्वर्थमुक्तावलीसंवलिता। ४६५ सकृदिति ॥ ब्राह्मणः सुवर्णमपहृत्य 'अस्य वामस्य पलितस्य' इत्येतत्सूक्तं प्रकृतत्वान्मासमेकं प्रत्यहमेकवारं जपित्वा, शिवसंकल्पं च 'यज्जाग्रतो दूरम् इत्येतद्वाजसनेयके यत्पठितं तजपित्वा सुवर्णमपहृत्य क्षिप्रमेव निष्पापो भवति ॥ २५० ॥ हविष्पान्तीयमभ्यस्य नतमंह इतीति च । जपित्वा पौरुष सूक्तं मुच्यते गुरुतल्पगः ॥२५१ ॥ हविष्पान्तीयमिति ॥ हविष्पान्तमजरं स्वर्विदि' इत्येकोनविंशतिऋचः 'नतमहो न दुरितम्' इत्यष्टौ, 'इति वा इति मे मनः', 'शिवसंकल्प' इति च सूक्तं, 'सहस्रशीर्षा पुरुषः' इत्येतच षोडशचे सूक्तं मासमेकं प्रत्यहमभ्यस्येति श्रवणात्प्र- कृतत्वात् षोडशाभ्यासाजपित्वा गुरुदारगस्तस्मात्पापान्मुच्यते ॥ २५१ ॥ एनसां स्थूलसूक्ष्माणां चिकीर्षन्नपनोदनम् । अवेत्यूचं जपेदब्दं यत्किचेदमितीति वा ॥ २५२ ॥ एनसामिति ॥ स्थूलानां पापानां महापातकानां सूक्ष्माणां चोपपातकादीनां निर्हरणं कर्तुमिच्छन् 'अव ते हेळो वरुण नमोभिः' इत्येतामृचं, 'यत्किंचेदं वरुण दैव्ये जने' इत्येतां च ऋचं, 'इति वा इति मे मनः' इत्येतत्सूक्तं संवत्सरमेकवारं प्रत्यहं जपेत् ॥ २५२ ॥ प्रतिगृह्याप्रतिग्राह्यं भुक्त्वाचान्नं विगर्हितम् । जपंस्तरत्समन्दीयं पूयते मानवख्यहात् ॥ २५३ ।। प्रतिगृह्येति ॥ स्वरूपतो महापातकिधनत्वादिना वाऽप्रतिग्राह्यं प्रतिगृह्य चान्नं स्वभावकालप्रतिग्रहसंसर्गदुष्टं भुक्त्वा 'तरत्समन्दी धावति' इत्येता ऋचश्च- तस्रो जपित्वा त्र्यहं तस्मात्पापान्मनुष्यः पूतो भवति ॥ २५३ ॥ सोमारौद्रं तु बढेना मासमभ्यस्य शुध्यति । स्रवन्त्यामाचरन्मानमर्यम्णामिति च तृचम् ॥ २५४॥ सोमेति ॥ सोमारुद्रा धारयेथामसुर्यम्' इति चतस्रः। 'अर्यमणं वरुणं मित्रं'च इति ऋक्वयं नद्यां च स्नानं कृत्वा मासमेकं प्रत्येकमभ्यस्य बहुपापो विशुध्यति । बहुष्वपि पापेषु तन्त्रेणैकं प्रायश्चित्तं कार्यमिति ज्ञापकमिदम् ॥ २५४ ॥ अब्दामिन्द्रमित्येतदेनखी सप्तकं जपेत् । अप्रशस्तं तु कृत्वाप्सु मासमासीत भैक्षभुक् ॥ २५५ ॥ अब्दामिति ॥ एनस्वीत्यविशेषात्सर्वेष्वेव पापेषु 'इन्द्रं मित्रं वरुणमग्निम्' इत्येताः सप्त ऋचः षण्मासं जपेत् । अप्रशस्तं मूत्रपुरीपोत्सर्गादिकं जले कृत्वा मासं भैक्षभोजी भवेत् ॥ २५५ ॥