पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ११] मन्वर्थमुक्तावलीसंवलिता। एतैद्विजातयः शोध्या व्रतैराविष्कृतैनसः । अनाविप्कृतपापांस्तु मन्त्रैर्होमैश्च शोधयेत् ॥ २२६ ॥ एतैरिति ॥ लोकविदितपापा द्विजातय एभिरुक्तप्रायश्चित्तर्वक्ष्यमाणपरिषदा शोधनीयाः । अप्रकाशितपापांस्तु मानवान्मन्त्रै)मैश्च परिषदेव शोधयेत् । यद्यपि परिषदि निवेदने रहस्यत्वस्य नाशस्तथाप्यमुकपापे कृते केनापि लोकाविदिते कि प्रायश्चित्तं स्यादिति सामान्यप्रश्ने न विरोधः ॥ २२६ ॥ ख्यापनेनानुतापेन तपसाऽध्ययनेन च । पापकृन्मुच्यते पापात्तथादानेन चापदि ॥ २२७ ॥ ख्यापनेनेति ॥ पापकारी नरो लोकेषु निजपापक्थनेन धिङ्मामतिपापकारिण- मिति पश्चात्तापेन शुध्यति । तपसा चोग्ररूपेण सावित्रीजपादिना च पापान्मुच्यते। तपस्यशक्तो दानेन च पापान्मुक्तो भवति । ख्यापनं चेदं प्रकाशप्रायश्चित्ताङ्गभूतं न रहस्यप्रायश्चित्ताङ्गं रहस्यत्वहानिप्रसङ्गात् । अनुतापश्च प्रकाशरहस्याङ्गमेव । दानेनेति प्राजापत्यव्रत एकधेनुविधानात् । धेनुश्च पञ्चपुराणीया त्रिपुराणीया वेति । एतेन ब्रह्महत्यानिमित्तके द्वादशवार्षिकवते मासि सार्धद्वयप्राजापत्यात वत्सरे त्रिंशद्धेनवो भवन्ति । द्वादशभिर्वषैः षष्ट्यधिकशतत्रयं धेनवो भव- न्तीति ॥ २२७ ॥ यथा यथा नरोऽधर्म स्वयं कृत्वानुभाषते । तथा तथा त्वचेवाहिस्तेनाधर्मेण मुच्यते ॥ २२८ ॥ यथेति ॥ यथा यथा स्वयं पापं कृत्वा नरो भाषते लोके ख्यापयति तथा तथा तेन पापेन सर्प इव जीर्णत्वचा मुच्यत इति ख्यापनविधेरनुवादः ॥ २२८ ॥ यथा यथा मनस्तस दुष्कृतं कर्म गर्हति । तथा तथा शरीरं तत्तेनाधर्मेण मुच्यते ॥ २२९ ॥ यथेति ॥ तस्य पापकारिणो मनो यथा यथा दुष्कृतं कर्म निन्दति तथा तथा शरीरं जीवात्मा तेनाधर्मेण मुक्तो भवति अयमनुतापानुवाद इति ॥ २२९ ॥ कृत्वा पापं हि संतप्य तस्मात्पापात्प्रमुच्यते । नैवं कुर्यां पुनरिति निवृत्त्या पूयते तु सः॥ २३० ॥ कृत्वेति ॥ पापं कृत्वा पश्चात्संतप्य तस्मात्पापान्मुच्यत इत्युक्तमपि नैवं कुर्या पुनरित्येवमनूदितम् । यदा तु पश्चात्तापो नैवं पुनः करिष्यामीत्येवं निवृत्ति- रूपसंकल्पफलकः स्यात्तदा सुतरां तसापापात्पूतो भवतीति । एतच्च निवृत्ति- संकल्पस्य प्रकाशाप्रकाशप्रायश्चित्ताङ्गविधानार्थम् ॥ २३० ॥ एवं संचिन्त्य मनसा प्रेत्य कर्मफलोदयम् । मनोवामूर्तिभिर्नित्यं शुभं कर्म समाचरेत् ॥ २३१ ॥ एवमिति ॥ एवं शुभाशुभानां कर्मणां परलोक इष्टानिष्टफलं मनसा विचार्य