पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६० मनुस्मृतिः। [अध्यायः ११ यथेति ॥ नीवारादिहविष्यसंबन्धिनां ग्रासानां द्वे शते चत्वारिंशदधिके कदा- चिद्दश कदाचित्पञ्च कदाचित्षोडश कदाचिदुपवास इत्येवमाद्यनियमेन यथाकथं- चित्पिण्डान्मासेन संयतवान्भुनानश्चन्द्रसलोकतां याति । एवं पापक्षयार्थमभ्यु. दयार्थं चेदमुक्तम् । अतएव याज्ञवल्क्यः-'धर्मार्थ यश्चरेदेतच्चन्द्रस्यैति सलो- कताम् । कृच्छ्रकृच्छर्मकामस्तु महतीं श्रियमामुयात् ॥' अतः प्राजापत्यादिकृच्छ्र- मप्यभ्युदयफलमिति याज्ञवल्क्येनोक्तम् ॥ २२ ॥ एतदुद्रास्तथादित्या वसवश्वाचरन्त्रतम् । सर्वाकुशलमोक्षाय मरुतश्च महर्षिभिः॥ २२१ ॥ एतदिति ॥ एतच्चान्द्रायणाख्यं व्रतं रुद्रादित्यवसुमरुतश्च महर्षिभिः सह सर्व- पापनाशाय गुरुलघुपापापेक्षया सकृदावृत्तिप्रकारेण कृतवन्तः ॥ २२१ ॥ महाव्याहृतिभिर्होमः कर्तव्यः खयमन्वहम् । अहिंसासत्यमक्रोधमार्जवं च समाचरेत् ॥ २२२॥ महाव्याहृतिभिरिति ॥ महाव्याहृतिभिर्भूर्भुवःस्वरेताभिः 'आज्यं हविरना- देशे जुहोतिषु विधीयते' इति परिशिष्टवचनादाज्येन प्रत्यहं होमं कुर्यात् । अहिंसासत्याक्रोधाकौटिल्यानि चानुतिष्ठेत् । यद्यप्येतानि पुरुषार्थतया विहितानि तथापि व्रताङ्गतयायमुपदेशः ॥ २२२ ॥ त्रिरहस्त्रिनिशायां च सवासा जलमाविशेत् । स्त्रीशूद्रपतितांश्चैव नाभिभाषेत कर्हिचित् ॥ २२३ ॥ त्रिरितिः ॥ अहनि रात्रावादिमध्यावसानेषु स्नानार्थ सचैलो नद्यादिजलं प्रवि. शेत् । एतच्च पिपीलिकामध्ययवमध्यचान्द्रायणेतरचान्द्रायणविषयम् । तयोः 'उपस्पर्श स्त्रिषवणम्' इत्युक्तत्वात् । स्त्रीशूद्रपतितैश्च सह यावद्रतं कदाचित्संभा. षणं न कुर्यात् ॥ २२३ ॥ स्थानासनाभ्यां विहरेदशक्तोऽधः शयीत वा । ब्रह्मचारी व्रती च साद्गुरुदेवद्विजार्चकः ॥ २२४ ॥ स्थानेति ॥ अहनि रात्रौ च उत्थित आसीनः स्यान्न तु शयीत । असामर्थ्य तु स्थण्डिले शयीत न खटादौ । ब्रह्मचारी स्वीसंयोगरहितव्रतः । व्रती मौजीद- ण्डादियुक्तः 'पालाशं धारयेद्दण्डं शुचिमौजी च मेखलाम्' इति यमस्मरणात् । गुरुदेवब्राह्मणानां च पूजको भवेत् ॥ २२४ ॥ सावित्री च जपेन्नित्यं पवित्राणि च शक्तितः। सर्वेष्वेव व्रतेष्वेवं प्रायश्चित्तार्थमादृतः॥ २२५ ॥ सावित्रीमिति ॥ सावित्री च सदा जपेत् । पवित्राणि चाघमर्षणादीनि यथा- शक्ति जपेत् । एतच्च यथा चान्द्रायणे तथा प्राजापत्यादिकृच्छ्रेष्वपि यत्नवान्प्राय- श्चित्तार्थमनुतिष्ठेत् ॥ २२५ ॥