पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४९१

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


अध्यायः ११] मन्वर्थमुक्तावलीसंवलिता। ४५९ ततेति ॥ तप्तकृच्छ्रे चरन्द्विजातिः त्र्यहमुष्णोदकं त्र्यहमुष्णक्षीरं त्र्यहमुष्णघृतं व्यहमुष्णवायुं एकवारं स्वानं कुर्वन्संयमवान्पिबेत् । अत्र पराशरोक्तो विशेषः- 'घट्पलं तु पिबेदम्भस्त्रिपलं तु पयः पिबेत् । पलमेकं पिबेत्सर्पिस्तप्तकृच्छ्रे वि. धीयते ॥ २१४॥ यतात्मनोऽप्रमत्तस्य द्वादशाहमभोजनम् । पराको नाम कृच्छ्रोऽयं सर्वपापापनोदनः ॥२१५ ॥ यतात्मन इति ॥ विगतानवधानस्य संयतेन्द्रियस्य द्वाहशाहमभोजनमेव परा- काख्यः कृच्छ्रः सकृदावृत्तितारतम्येन गुरुलघुसमफलपापापनोदनः ॥ २१५ ॥ एकैकं हासयेत्पिण्डं कृष्णे शुक्ले च वर्धयेत् । उपस्पृशंस्त्रिषवणमेतच्चान्द्रायणं स्मृतम् ॥ २१६ ॥ एकैकमिति ॥ सायंप्रातमध्याह्नेषु स्नानं कुर्वाणः पौर्णमास्यां पञ्चदश ग्रासान- शित्वा ततः कृष्णप्रतिपत्क्रमेणैकैकं प्रासं हासयेत्तथा चतुर्दश्यामेको ग्रासः संपद्यते । ततोऽमावास्यायामुपोष्य शुक्लप्रतिपत्प्रभृतिभिरेकैक प्रासं वृद्धि नयेत् । एवं पौर्ण- मास्यां पञ्चदश ग्रासाः संपद्यन्ते । एतत्पिपीलिकमध्याख्यं चान्द्रायणं स्मृतम् २१६ एतमेव विधिं कृत्स्नमाचरेद्यवमध्यमे । शुक्लपक्षादिनियतश्चरंश्चान्द्रायणं व्रतम् ॥ २१७॥ एतमिति ॥ एतमेव पिण्डहासवृद्धित्रिषवणस्नानात्मकं विधानं यवमध्याख्ये चान्द्रायणे शुक्लपक्षमादितः कृत्वा संयतेन्द्रियश्चान्द्रायणमनुतिष्ठन्नाचरेत् । ततश्च शुक्लप्रतिपदमारभ्य एकैकं पिण्डं वर्धयेत् । तथा पौर्णमास्यां पञ्चदश ग्रासाः संप- द्यन्ते । ततः कृष्णप्रतिपदमारभ्य एकैकं पिण्डं ह्रासयेत् । यथामावास्यायामुप- वासो भवति ॥ २१७ ॥ अष्टावष्टौ समश्नीयात्पिण्डान्मध्यंदिने स्थिते । नियतात्मा हविष्याशी यतिचान्द्रायणं चरन् ॥ २१८ ॥ अष्टाविति ॥ यतिचान्द्रायणमनुतिष्ठन् शुक्लपक्षात्कृष्णपक्षाद्वारभ्य मासमेकं संयतेन्द्रियः प्रत्यहमष्टावष्टौ ग्रासान्मध्यंदिने भुञ्जीत । मध्यंदिन इति गृह- स्थब्रह्मचारिणोः सायंभोजननिवृत्त्यर्थम् ॥ २१८ ॥ चतुरः प्रातरश्नीयात्पिण्डान्विप्रः समाहितः। चतुरोऽस्तमिते सूर्ये शिशुचान्द्रायणं स्मृतम् ॥ २१९ ॥ चतुर इति ॥ प्रातश्चतुरो ग्रासानश्नीयात् । अस्तमिते च सूर्ये चतुरो ग्रासा. न्भुजीत । एतच्छिशुचान्द्रायणं मुनिभिः स्मृतम् ॥ २१९ ॥ यथाकथंचित्पिण्डानां तिस्रोऽशीतीः समाहितः । मासेनानन्हविष्यस्य चन्द्रस्यैति सलोकताम् ॥ २२०॥