४५८
मनुस्मृतिः। [अध्यायः११
यैरभ्युपायैरेनांसि मानवो व्यपकर्षति ।
तान्वोऽभ्युपायान्वक्ष्यामि देवर्षिपितृसेवितान् ॥ २१० ॥
यैरिति ॥ चैहेतुभिर्मनुष्यः पापान्यपनुदति तान्पापनाशहेतून्देवर्षिपितृभिरनु-
ष्ठितान युप्माकं वक्ष्यामि ॥ २१० ॥
त्र्यहं प्रातस्यहं सायं व्यहमद्यादयाचितम् ।
त्र्यहं परं च नाश्नीयात्प्राजापत्यं चरन्द्विजः ॥२११॥
न्यहमिति ॥ प्राजापत्याख्यं कृच्छ्रमाचरन् द्विजातिराद्यं दिनत्रयं प्रातर्भुञ्जीत ।
प्रातःशब्दोऽयं भोजनानामौचित्यप्राप्तदिवाकालपरः। अतएव वसिष्टः---'त्र्यह
दिवा मुझे नक्तमत्ति च व्यहं त्र्यहं अयाचितवतं त्र्यहं न भुते' इति च कृच्छ्रः ।
आपस्तम्बोऽप्याह-'यहं नक्काशी दिवाशी च ततस्यहम् । व्यहमयाचितव्रतस्यहं
नानाति किंचन ॥' इति कृच्छ्रद्वादशरात्रस्य विधिः । अपरं च दिनत्रयं सायंसं-
ध्यायामतीतायां भुञ्जीत । अन्यद्दिनत्रयमयाचितं तावदन्नं भुञ्जीत । शेषं च
दिनत्रयं न किंचिदश्नीयात् । अत्र ग्राससंख्यापरिमाणापेक्षायां पराशरः- -'सायं
द्वात्रिंशतिसाः प्रातः षड्विंशतिस्तथा । अयाचिते चतुर्विशत्परं चानशनं स्मृतम्॥
कुक्कुटाण्डप्रमाणं च यावांश्च प्रविशेन्मुखम् । एतं प्रासं विजानीयाच्छुच्यर्थ ग्रास-
शोधनम् ॥ हविष्यं चानमनीयाद्यथा रात्रौ तथा दिवा । त्रीस्त्रीण्यहानि शास्त्रीया-
न्यासान्संख्याकृतान्यथा ॥ अयाचितं तथैवाद्यादुपवासस्यहं भवेत् ॥ २११ ॥
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।
एकरात्रोपवासश्च कृच्छ्रे सांतपनं स्मृतम् ॥ २१२ ॥
गोमूत्रमिति ॥ गोमूत्रायेकीकृत्य एकैकस्मिन्नहनि भक्षयेन्नान्यत्किंचिदद्यात् ।
अपरदिने चोपवास इत्येतत्सांतपनं कृच्छ्रे स्मृतम् । यदा तु गोमूत्रादिषट्
प्रत्येकं षट् दिनान्युपभुज्य चोपवासस्तदा महासांतपनं भवति । तथा
च याज्ञवल्क्यः-'कुशोदकं च गोक्षीरं दधि मूत्रं शकृद्धृतम् । जग्ध्वापरेऽहयु-
सवसेत्कृच्छ्रे सांतपनं चरन् ॥ पृथक् सांतपनद्रव्यैः षडहः सोपवासिकः । सप्ता-
हेन तु कृच्छ्रोऽयं महासांतपनं स्मृतम्' इति ॥ २१२ ॥
एकैकं ग्रासमश्नीयाध्यहाणि त्रीणि पूर्ववत् ।
त्र्यहं चोपवसेदन्त्यमतिकृच्छं चरन्द्विजः ॥ २१३ ॥
एकैकमिति ॥ अतिकृच्छं द्विजातिरनुतिष्ठन्प्रातः सायमयाचितादिरूपेणकैकं
प्रासं त्र्यहाणि त्रीणि त्रीणि पूर्ववत् अन्यच्च व्यहं न किंचिद्भुजीत ॥ २१३ ॥
तप्तकृच्छ् चरन्विनो जलक्षीरघृतानिलान् ।
अतित्र्यहं पिवेदुष्णान्सकृत्स्नायी समाहितः ॥ २१४ ॥
पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४९०
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
