पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अध्यायः १] मन्वर्थमुक्तावलीसंवलिता। १५

अपुष्पाः फलवन्तो ये ते वनस्पतयः स्मृताः।
पुष्पिणः फलिनचैव वृक्षास्तूभयतः स्मृताः ॥ ४७॥

अपुष्पा इति ॥ नास्य श्लोकस्याभिधानकोशवत्संज्ञासंज्ञिसंबन्धपरत्वमप्रकृतत्वात् किंतु 'क्रमयोगं च जन्मनि' इति प्रकृतं तदर्थमिदमुच्यते । ये वनस्पतयस्तेषां पुष्पमन्तरेणैव फलजन्म, इतरेभ्यस्तु पुष्पाणि जायन्ते तेभ्यः फलानीति । एवं वृक्षा उभयरूपाः । प्रथमान्तात्तसिः ॥ ४७ ॥

गुच्छगुल्मं तु विविधं तथैव तृणजातयः ।
बीजकाण्डरुहाण्येव प्रताना वल्लच एव च ॥४८॥

गुच्छगुल्मं त्विति ॥ मूलत एव यत्र लतासमूहो भवति नच प्रकाण्डानि ते गुच्छा मल्लिकादयः । गुल्मा एकमूलाः संघातजाताः शरेक्षुप्रभृतयः । तृणजातय उलपाद्याः । प्रतानास्तन्तुयुक्तास्त्रपुषालाबूप्रभृतयः । वल्लयो गुडूच्यादयः या भूमेवृक्षमारोहन्ति । एतान्यपि बीजकाण्डरुहाणि । 'नपुंसकमनपुंसकेनैकवचास्यान्यतरस्याम्' इति नपुंसकत्वात् ॥ ४८ ॥

तमसा बहुरूपेण वेष्टिताः कर्महेतुना ।
अन्तःसंज्ञा भवन्त्येते सुखदुःखसमन्विताः॥ ४९ ॥

तमसेति ॥ एते वृक्षादयस्तमोगुणेन विचित्रदुःखफलेनाधर्मकर्महेतुकेन व्याप्ता अन्तश्चैतन्या भवन्ति । यद्यपि सर्वे चान्तरेव चेतयन्ते तथापि बहिर्व्यापारादिकार्यविरहात्तथा व्यपदिश्यन्ते । त्रिगुणारब्धत्वेऽपि चैषां तमोगुणबाहुल्यात्तथा व्यपदेशः । अतएव सुखदुःखसमन्विताः। सत्त्वस्यापि भावात्कदाचित्सुखलेशोऽपि जलधरजनितजलसंपर्कादेषां जायते ॥ ४९ ॥

एतदन्तास्तु गतयो ब्रह्माद्याः समुदाहृताः।
घोरेऽस्मिन्भूतसंसारे नित्यं सततयायिनि ॥ ५० ॥

एतदन्ता इति ॥ स्थावरपर्यन्ता ब्रह्मोपक्रमा गतय उत्पत्तयः कथिताः। भूतानां क्षेत्रज्ञानां जन्ममरणप्रबन्धे दुःखबहुलतया भीषणे सदा विनश्वरे ॥ ५० ॥

इत्थं सर्गमभिधाय प्रलयदशामाह-

एवं सर्वं स सृष्ट्वेदं मां चाचिन्त्यपराक्रमः।
आत्मन्यन्तर्दधे भूयः कालं कालेन पीडयन् ॥ ५१ ॥

एवं सर्वमिति ॥ एवं उक्तप्रकारेण । इदं सर्वं स्थावरजङ्गमं जगत्सृष्ट्वा स प्रजापतिरचिन्त्यशक्तिरीत्मनि शरीरत्यागरूपमन्तर्धानं कृतवान् । सृष्टिकालं प्रलयकालेन नाशयन्प्राणिनां कर्मवशेन पुनः पुनः सर्गप्रलयान्करोतीत्यर्थः ॥५१॥