पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ११] मन्वर्थमुक्तावलीसंवलिता। वेदोदितानां नित्यानां कर्मणां समतिक्रमे । स्नातकव्रतलोपे च प्रायश्चित्तमभोजनम् ।। २०३॥ वेदेति ॥ वेदविहितानां कर्मणामग्निहोत्रादीनामनुपदिष्टप्रायश्चित्तविशेषाणां च परिलोपे स्नातकव्रतानां चतुर्थाध्यायोक्तानामतिक्रमे सत्येकाहोपवासं प्रायश्चित्तं कुर्यात् ॥ २०३ ॥ हुंकारं ब्राह्मणस्योक्त्वा त्वंकारं च गरीयसः। स्नात्वानश्नन्नहःशेषमभिवाद्य प्रसादयेत् ॥ २०४॥ हुंकारमिति ॥ हुं तूष्णीं स्थीयतामित्याक्षेपं ब्राह्मणस्य कृत्वा त्वंकारं च विद्या- द्यधिकस्योक्त्वाभिवदनकालादारभ्याहःशेषं यावत्स्नात्वा भोजननिवृत्तः पादोपन- हणेनापगतकोपं कुर्यात् ॥ २०४ ॥ ताडयित्वा तृणेनापि कण्ठे वावध्य वाससा । विवादे वा विनिर्जित्य प्रणिपत्य प्रसादयेत् ॥ २०५॥ ताडयित्वेति ॥ प्राकृतं ब्राह्मणं तृणेनापि ताडयित्वा कण्टे वावध्य वाससा वा वाकलहेन जित्वा प्रणिपातेन प्रसादयेत् ॥ २०५ ॥ अवगूर्य त्वन्दशतं सहस्रमभिहत्य च । जिघांसया ब्राह्मणस्य नरकं प्रतिपद्यते ॥ २०६॥ अवगूर्येति ॥ ब्राह्मणस्य हननेच्छया दण्डमुद्यम्य वर्षशतं नरकं प्राप्नोति । दण्डादिना पुनः प्रहृत्य वर्षसहस्रं नरकं प्राप्नोति ॥ २०६॥ शोणितं यावतः पासून्संगृह्णाति महीतले । तावन्त्यब्दसहस्राणि तत्कर्ता नरके वसेत् ॥ २०७॥ शोणितमिति ॥ प्रहतस्य ब्राह्मणस्य रुधिरं यावत्संख्याकान् रजःकणान्भूमौ पि- ण्डीकरोति तावत्संख्याकानि वर्षसहस्राणि तच्छोणितोत्पादको नरके वसेत्॥२०७॥ अवर्य चरेत्कृच्छ्रमतिकृच्छं निपातने । कृच्छ्रातिकृच्छ्रौ कुर्वीत विप्रस्योत्पाद्य शोणितम् ॥२०८॥ अवेति ॥ ब्राह्मणस्य हननेच्छया दण्डाद्युद्यमने कृच्छ्रे कुर्यात् । दण्डादिप्रहारे दत्तेऽतिकृच्छ्रे वक्ष्यमाणं चरेत् । रुधिरमुत्पाद्य कृच्छ्रातिकृच्छौ कुर्वीत ॥ २०८ ॥ अनुक्तनिष्कृतीनां तु पापानामपनुत्तये । शक्तिं चावेक्ष्य पापं च प्रायश्चित्तं प्रकल्पयेत् ॥ २०९ ॥ अनुक्तेति ॥ अनुक्तप्रायश्चित्तानां यथा प्रतिलोमवधादिकृतानां निर्हरणार्थ कर्तुः शरीरधनानि सामर्थ्यमवेक्ष्य पापं च ज्ञात्वा ज्ञानाज्ञानसकृदावृत्त्यनुबन्धादिरूपेण प्रायश्चित्तं प्रकल्पयेत् ॥ २०९ ॥ मनु० ३९