पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४८८

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


४५६ मनुस्मृतिः। [ अध्यायः ११ व्रात्यानां याजनं कृत्वा परेपामन्त्यकर्म च । अभिचारमहीनं च त्रिभिः कृच्छ्रेव्यपोहति ॥ १९७ ॥ ब्रात्यानामिति ॥ व्रात्यानां 'अत ऊर्ध्व योऽप्येते' इत्युक्तानां व्रात्यस्तोमादि- याजनं कृत्वा पितृगु, दिव्यतिरिक्तानां च निषिद्धीचंदेहिकदाहश्राद्धादि कृत्वाभि- चारं च श्येनादिकम् । अभिचारोऽनभिचारणीयस्य । अहीनं यागविशेषः । 'अहीनयजनमशुचिकरम्' इति श्रुतेः । त्रिरात्रादि तस्य यजनं कृत्वा त्रिभिः कृच्छ्रेविशुध्यति ॥ १९७ ॥ शरणागतं परित्यज्य वेदं विप्लाव्य च द्विजः। संवत्सरं यवाहारस्तत्पापमपसेधति ॥ १९८ ॥ शरणागतमिति ॥ शरणागतं परित्राणार्थमुपगतं शक्तः सन्नुपेक्षते द्विजातिरन- याप्यं च वेदमध्याप्य तजनितं पापं संवत्सरं यवाहारोऽपनुदति ॥ १९८ ॥ श्वसृगालखरेर्दष्टो ग्राम्यैः क्रव्याद्भिरेव च । नराश्वोष्ट्रवराहैश्च प्राणायामेन शुद्ध्यति ॥ १९९ ॥ [ शुनाघातावलीढस्य दन्तैर्विदलितस्य च । अद्भिः प्रक्षालनं प्रोक्तमग्निना चोपचूलनम् ।। वसृगालेति ।। कुक्कुरसृगालगर्दभनराश्ववराहाद्याम्यैश्चाममांसादैर्मार्जारादिभि- दृष्टः प्राणायामेन शुध्यति ।। १९९ ॥ पष्ठान्नकालता मासं संहिताजप एव वा । होमाश्च सकला नित्यमपाश्यानां विशोधनम् ।। २०० ॥ षष्टान्नेति ॥ अपातयाः ये 'पतिताः स्तेनक्लीबाः' इत्यादिनोक्तास्तेषां विशेषतोऽ- दुपदिष्टप्रायश्चित्तानां मासं त्र्यहमभुक्त्वा तृतीयेऽह्नि सायं भोजनं वेदसंहिता- जपो 'देवकृतस्यैनसोऽवयजनमसि' इत्यादिभिरष्टभिर्मन्त्रै)मः प्रत्येकं कार्यः । एतत्समुद्दिष्टं पापशोधनम् ॥ २० ॥ उष्ट्रयानं समारुह्य खरयानं तु कामतः । स्नात्वा तु विप्रो दिग्वासाः प्राणायामेन शुद्ध्यति॥२०॥ उष्ट्रयानमिति ॥ उष्ट्रेर्युक्तं यानं शकटादि एवं खरयानमपि तत्कामत आरुह्य अव्यवधान उष्ट्रखराभ्यां याने प्राणायामबहुत्वं नग्नश्च कामतः स्नानं कृत्वा प्राणा- चामेन शुद्धो भवति ॥ २०१ ॥ विनाद्भिरप्सु वाप्यातः शारीरं संनिवेश्य च । सचैलो बहिराप्लुत्य गामालभ्य विशुद्ध्यति ॥ २०२ ॥ विनेति ॥ असंनिहितजलो जलमध्ये वा वेगा? मूत्रं पुरीषं वा कृत्वा सवासा बहि मान्नद्यादौ स्नात्वा गां च स्पृष्ट्वा विशुद्धो भवति ॥ २०२ ॥