पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ११] मन्वर्थमुक्तावलीसंवलिता। ४५५ त्राणरक्षार्थमागतं यो हतवान्, स्त्रियं च यो व्यापादितवानेतान्यथावकृतप्राय- श्चित्तानपि संसर्गितया न परिवसेत् ॥ १९ ॥ येषां द्विजानां सावित्री नानूच्येत यथाविधेि । तांश्चारयित्वा त्रीन्कृच्छ्रान्यथाविध्युपनाययेत् ॥ १९१ ।। येषामिति ॥ येषां ब्राह्मणक्षत्रियविशां आनुकल्पिककाल उपनयनं यथाशास्त्रं न कृतवान् तान्प्राजापत्यत्रयं कारयित्वा यथाशास्त्रमुपनयेत् । यत्तु याज्ञवल्क्यादि- भित्यिस्तोमादिप्रायश्चित्तमुक्तं तेन सहाय गुरुलाघवमनुसंधाय जानिशक्त्याद्य- पेश्रो विकल्पो मन्तव्यः ॥ १९ ॥ प्रायश्चित्तं चिकीर्षन्ति विकर्मस्थास्तु ये द्विजः। ब्रह्मणा च परित्यक्तास्तेषामप्येतदादिशेत् ॥ १९२ ॥ प्रायश्चित्तमिति ॥ ये प्रतिषिद्धशूद्रसेविनो द्विजास्ते चोपनीता अग्न्यनधीतवेदाः प्रायश्चित्तं कर्तुमिच्छन्ति तेषामप्येतत्प्राजापत्यादिवयमुपदिदोत् ॥ १९२ ॥ यदहितेनार्चयन्ति कर्मणा ब्राह्मणा धनम् । तस्योत्सर्गेण शुद्ध्यन्ति जप्येन तपसैव च ।। १९३ ।। यदिति ॥ गर्हितेन कर्मणा निषिद्धदुःप्रतिग्रहादिना ब्राह्मणा यड्नमर्जयन्ति तस्य धनस्य त्यागेन जपतपोभ्यां वक्ष्यमाणाभ्यां शुद्ध्यन्ति । धनत्यागेन च प्राय- श्चित्तविधानाबहुमूल्ये च करितुरगादावल्पमूल्ये च लौहादौ परिगृहीते तुल्यमाय- श्चित्ताभिधानमुपपन्नम् । एवमविक्रय्यविक्रयादावपि ॥ १९३ ॥ जपित्वा त्रीणि सावित्र्याः सहस्राणि समाहितः। मासं गोष्ठे पयः पीत्वा मुच्यतेऽसत्प्रतिग्रहान् ॥ १९४ ।। जपित्वेति ॥ त्रीणि सावित्रीसहस्राणि जपिन्वा गोष्टे वा मासं श्रीराहारोऽसन्प्र- तिग्रहजनितात्पापान्मुक्तो भवति । शूद्रप्रतिग्रहादावप्येतदेव प्रायश्चित्तम् । इच्य- दोषेण च दातृदोपेणापि प्रतिग्रहस्य गर्हितत्वाविशेषादिति ॥ १९४ ॥ उपवासकृशं तं तु गोत्रजात्पुनरागतम् । प्रणत प्रति पृच्छेयुः साम्यं सौम्येच्छसीति किम् ॥१९५|| उपवासेति ॥ केवलक्षीराहारेण इतरभोजनव्यावृत्त्या कृशदेहं गोष्ठा प्रत्यागतं प्रणतं नम्रीभूतं किमस्माभिः सह साम्यमिच्छसि पुनरसत्प्रतिग्रहं न कारिष्यसी-येवं धर्म ब्राह्मणाः परिपृच्छेयुः ॥ १९५ ॥ सत्यमुक्त्वा तु विप्रेषु विकिरेद्यवसं गवाम् । गोभिः प्रवर्तिते तीर्थे कुर्युस्तस्य परिग्रहम् ।। १९६ ॥ सत्यमिति ॥ सत्यमेतत्पुनरसत्प्रतिग्रहं न करिप्यामीत्येवं ब्राह्मणेषूक्त्वा घासं गवां दद्यात् । तस्सिन्यवसं भक्ष्यमाणे देशे गोभिः पवित्रीकृतत्वात्तीर्थीभूते ब्राह्म- णास्तस्य संव्यहारे स्वीकारं कुर्युः ॥ १९६ ॥