पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ११] मन्वर्थमुक्तावलीसंवलिता। ४४९ शुष्काणि भुक्त्वा मांसानि भौमानि कवकानि च । अज्ञातं चैव मूनास्थमेतदेव व्रतं चरेत् ॥ १५५ ॥ शुप्काणीति ॥ वायवादिना शोषितानि मांसानि भुक्त्वा भूम्यादिप्रभवाणि छत्राकाणि भुक्त्वा 'भूमिजं वा वृक्ष वा छत्राकं भक्षयन्ति ये । ब्रह्मनांस्तान्वि- जानीयात्' इति यमेन वृक्षजस्यापि निषेधात् । हरिणमांसं वा रासभमांसमिति भक्ष्याभक्ष्यतया यन्न ज्ञातं तथा हिंसास्थानं सूना ततो यदानीतं तद्भुक्त्वा चान्द्रायणमेव कुर्यात् ॥ १५५ ॥ क्रव्यादमूकरोष्ट्राणां कुक्कुटानां च भक्षणे । नरकाकखराणां च तप्तकृच्छं विशोधनम् ॥ १५६ ॥ क्रव्यादेति ॥ आममांसभक्षिणां ग्राम्यसूकरोष्ट्रनाम्यकुक्कुटानां तथा मानुषकाक- गर्दभानां प्रत्येकं बुद्धिपूर्वकं मांसभक्षणे वक्ष्यमाणं तप्तकृच्छ्रे प्रायश्चित्तम् । ग्राम्यसूकरकुक्कुटयोर्बुद्धिपूर्वकभक्षणे पञ्चमाध्याये पातित्यमुक्तं तदभ्यासविपये व्याख्यातं इदंतु नाभ्यासविषये तप्तकृच्छ्रमित्यविरोधः॥ १५६ ॥ मासिकान्नं तु योऽश्नीयादसमावर्तको द्विजः। स त्रीण्यहान्युपवसेदेकाहं चोदके वसेत् ॥ १५७ ॥ मासिकानमिति ॥ यो ब्रह्मचारी ब्राह्मणो मासिकश्राद्धसंबन्ध्यन्नमश्नाति । एतच्च सपिण्डीकरणात्पूर्वमेकोद्दिष्टश्राद्धार्थोपलक्षणम् । स त्रिरात्रमुपवसेत् । त्रिरात्रमध्ये एकस्मिन्नहनि जलसावसेत् ॥ १५७ ॥ ब्रह्मचारी तु योऽश्नीयान्मधु मांसं कथंचन । स कृत्वा प्राकृतं कृच्छ्रे व्रतशेष समापयेत् ॥ १५८ ॥ ब्रह्मचारीति ॥ यो ब्रह्मचारी माक्षिकं मांसं वा अनिच्छातः आपदि वाद्यात्स प्राजापत्यं कृत्वा भुक्त्वा प्रारब्धब्रह्मचर्यव्रतशेपं समापयेत् ॥ १५८ ।। विडालकाकाखूच्छिष्टं जग्ध्वा श्वनकुलस्य च । केशकीटावपन्नं च पिवेब्रह्मसुवर्चलाम् ॥ १५९ ॥ बिडालेति ॥ बिडालकाकमूषककुक्करनकुलानामुच्छिष्टं केशकीटरूपसंसर्गदुष्टं वा कृतमृत्क्षेपविशुद्धिकं ज्ञात्वा भुक्त्वा ब्रह्मसुवर्चलां क्वथितमुदकं पिबेत् ॥१५९॥ अभोज्यमन्नं नात्तव्यमात्मनः शुद्धिमिच्छता । अज्ञानभुक्तं तूत्तार्य शोध्यं वाप्याशु शोधनैः॥ १६०॥ अभोज्यामिति ॥ आत्मनः शुद्धिकामेन प्रतिषिद्धमन्नं नादनीयम् । प्रमादात्तु भुक्तं वमितव्यम् । तदसंभवे प्रायश्चित्तैः क्षिप्रं शोधनीयम् । वमनपक्षे तु लघुप्राय- श्चित्तं भवत्येव । ज्ञानतः पुनः पूर्वोक्तं प्रायश्चित्तम् ॥ १६ ॥ एषोऽनाद्यादनसोक्तो व्रतानां विविधो विधिः । स्तेयदोषापहर्तृणां व्रतानां श्रूयतां विधिः॥१६१॥