पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मनुस्मृतिः। [ अध्यायः ११ ब्राह्मणस्तु सुरापस्य गन्धमाघ्राय सोमपः। प्राणानप्सु त्रिरायम्य घृतं प्राश्य विशुद्ध्यति ॥ १४९ ॥ ब्राह्मणस्त्वित्यादि ॥ ब्राह्मणः पुनः कृतसोमयागः सुरापस्य मुखसंबन्धिनं गन्धं घ्रात्वा जलमध्ये प्राणायामनयं कृत्वा घृतं प्राश्य विशुद्धो भवति ॥ १४९ ॥ अज्ञानात्प्राश्य विण्मूत्रं सुरासंस्पृष्टमेव च । पुनःसंस्कारमर्हन्ति त्रयो वर्णा द्विजातयः॥ १५० ॥ अज्ञानादिति ॥ विड्वराहादीनां वक्ष्यमाणत्वादबुद्धिपूर्वकं मनुष्यसंबन्धि मूत्रं पुरीषं वा प्राश्य मद्यसुरासंस्पृष्टं च भक्तादिरसं वा प्राश्य द्विजातयस्त्रयो वर्णाः पुनरुपनयनमर्हन्ति ॥ १५० ॥ वपनं मेखला दण्डो भैक्षचर्या व्रतानि च । निवर्तन्ते द्विजातीनां पुनःसंस्कारकर्मणि ॥ १५१ ॥ वपनमिति ॥ शिरोमुण्डनं मेखलाधारणं दण्डधारणं भैक्षाणि व्रतानि च मधु- मांसस्त्रीवर्जनयुतानि प्रायश्चित्तानि पुनरुपनयने द्विजातीनां न भवन्ति ॥ १५॥ अभोज्यानां तु भुक्त्वान्नं स्त्रीशूद्रोच्छिष्टमेव च । जग्ध्वा मांसमभक्ष्यं च सप्तरात्रं यवान्पिबेत् ॥ १५२ ॥ अभोज्यानामिति ॥ अभोज्यान्नानां 'नाश्रोत्रियकृते यज्ञे' इत्याधुक्तानामन्नं भुक्त्वा जलमिश्रितसक्तरूपेण यवागूरूपेण वा यवान्पानयोग्यान्कृत्वा सप्तरात्रं पिबेत् । अमुष्मिन्नेव विषये 'मत्या भुक्त्वा चरेत्कृच्छ्रम्' इति चतुर्थाध्याये प्राय- श्चित्तमुक्तं तेन सह वैकल्पिकम् । विकल्पश्च कर्तृशक्त्यपेक्षः । तथा द्विजातिस्त्रीणा- मुच्छिष्टं शूद्रोच्छिष्टं वा भुक्त्वैतदेव कुर्यात् । तथा 'क्रव्यादसूकरोष्ट्राणाम्' इत्या- दिना यद्विशेषप्रायश्चित्तं तन्निपिद्धमांसं भुक्त्वेदमेव कुर्यात् ॥ १५२ ॥ शुक्तानि च कषायांश्च पीत्वामेध्यान्यपि द्विजः । तावद्भवत्यप्रयतो यावत्तन्न बजत्यधः ॥ १५३ ।। शुक्तानीति ॥ यानि स्वभावतो मधुरादिरसानि कालयोगेनोदकपरिमाणादिना- म्लभावं व्रजन्ति तानि शुक्तानि, कषायान्विभीतकादीन् , कथितान्यप्रतिपिट्टा- न्यपि पीत्वा यावन्न जीर्णानि भवन्ति तावदशुचिः पुरुषो भवति ॥ १५३ ॥ विवराहखरोष्ट्राणां गोमायोः कपिकाकयोः । प्राश्य मूत्रपुरीपाणि द्विजश्चान्द्रायणं चरेत् ॥.१५४ ॥ विचराहेति ॥ ग्राम्यसूकरखरोष्ट्रशृगालवानरकाकानां मूत्रं पुरीषं वा द्विजाति - क्त्वा चान्द्रायणं कुर्याच्छोधनम् । यत्तु 'छत्राकं विवराहं च' इत्यनेन विड्वराहग्राम- कुक्कुटयोवुद्धिपूर्वकभक्षणे पञ्चमाध्याये प्रायश्चित्तमुक्तं तदभ्यासविषये व्याख्यातम्। इदं त्वनभ्यासविषये तप्तकृच्छ्रमित्यविरोधः ॥ १५४ ॥