मनुस्मृतिः। [ अध्यायः १
एवमेतैरिदं सर्वं मन्नियोगान्महात्मभिः । |
एवमेतैरिति ॥ एवमित्युक्तप्रकारेण एतैर्मरीच्यादिभिरिदं सर्व स्थावरजङ्गमं सृष्टम् । यथाकर्म यस्य जन्तोर्यादृशं कर्म तदनुरूपम् । तस्य देवमनुष्यतिथंगादियोनिषूत्पादनं मन्नियोगान्मदाज्ञया । तपोयोगान्महत्तपः कृत्वा । सर्वमैश्वयं तपोधीनमिति दर्शितम् ॥ ४१ ॥
येषां तु यादृशं कर्म भूतानामिह कीर्तितम् । |
येपामित्यादि ॥ येषां पुनर्यादृशं कर्म इह संसारे पूर्वाचार्यैः कथितम् । यथा 'ओषध्यः फलपाकान्ता बहुपुष्पफलोपगाः' । ब्राह्मणादीनां चाध्ययनादिकर्म तत्तथैव वो युष्माकं वक्ष्यामि । जन्मादिक्रमयोगं च ॥ ४२ ॥
पशवश्व मृगाश्चैव व्यालाश्चोभयतोदतः। |
पशवश्चेति ॥ जरायुर्गर्भावरणचर्म तत्र मनुष्यादयः प्रादुर्भवन्ति पश्चान्मुक्ता जायन्ते । एषामेव जन्मक्रमः प्रागुक्तो विवृतः । दन्तशब्दसमानार्थो दच्छब्दः प्रकृत्यन्तरमस्ति तस्येदं प्रथमाबहुवचने रूपमुभयतोढदत इति ॥ ३ ॥
अण्डजाः पक्षिणः सो नक्रा मत्स्याश्च कच्छपाः । |
अण्डजाः पक्षिण इति ॥ अण्ड आदौ संभवन्ति ततो जायन्त इति एषां जन्मक्रमः । नक्राः कुम्भीराः। स्थलजानि कृकलासादीनि । औदकानि शङ्खादीनि ॥४४॥
स्वेदजं दंशमशकं यूकामक्षिकमत्कुणम् । |
स्वेदजमिति ॥ स्वेदः पार्थिवद्रव्याणां तापेन क्लेदः ततो दंशमशकादिर्जायते । ऊष्मणश्च स्खेदहेतुतापादपि अन्यदृंशादिसदृशं पुत्तिकापिपीलिकादि जायते ॥४५॥
उद्भिज्जाः स्थावराः सर्वे बीजकाण्डप्ररोहिणः । |
उद्भिजा इति ॥ उद्भेदनमुद्भित् । भावे क्विप् । ततो जायन्ते ऊर्ध्वं बीजं भूमिंं च भित्त्वेत्युद्भिज्जा वृक्षाः। ते च द्विधा । केचिद्वीजादेव जायन्ते। केचित्काण्डात् शाखा एव रोपिता वृक्षतां यान्ति । इदानीं येषां यादृशं कर्म तदुच्यते-ओषध्य इति ॥ ओषध्यो ब्रीहियवादयः फलपाकेनैव नश्यन्ति बहुपुष्पफलयुक्ताश्च भवन्ति । ओषधिशब्दादेव 'कृदिकारादक्तिनः' इति डीपि दीर्घत्वे ओषध्य इति रूपम् ॥४६॥