पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४७९

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


अध्यायः ११] मन्वर्थमुक्तावलीसंवलिता। ४४७ एतैव्रतेरपोचं सादेनो हिंसासमुद्भवम् । ज्ञानाज्ञानकृतं कृत्वं शृणुतानाधभक्षणे ।। १४५॥ एतैरिति ॥ एभिरुक्तप्रायश्चित्तैहिसाजनितपापं ज्ञानाज्ञानकृतं निर्हरणीयम् । इदानीमभक्ष्यभक्षणप्रायश्चित्तं वक्ष्यमाणं शृणुत ॥ १४५ ॥ अज्ञानाद्वारुणी पीत्वा संस्कारेणैव शुद्ध्यति । मतिपूर्वमनिर्देश्य प्राणान्तिकमिति स्थितिः ॥ १४६ ॥ अज्ञानादिति ॥ महापातकप्रकरणव्यवधानेनास्याम्नानान्नेदं मुख्यपृष्टीसुराविषयं वचनं किंतु तदितरविषयम् । तत्र यथा चैका तथा सर्वा । गौडीमाध्योर्मुख्यसुरासा- म्यबोधनमितरमद्यापेक्षया ब्राह्मणस्य प्रायश्चित्तगौरवार्थमित्युक्तम् । तेनाबुद्धिपूर्वक गौडीमाध्वीं च पीत्वा गोतमोक्तं तप्तकृच्छ्रे कृत्वा पुनःसंस्कारेणैव शुद्धति । तथाच गोतमः-'अमत्या मद्यपाने पयोधृतमुकं वायु प्रत्यहं तप्तकृच्छ्रस्ततोऽस्य संस्कारः। इत्थमेव व्याख्यातं भविष्यपुराणे-'अकामतः कृते पाने गौडीमाध्व्योनराधिप । तप्तकृच्छ्रविधानं त्याद्गोतमेन यथोदितम्' । बुद्धिपूर्वकं तु पैष्टीतरमद्यपाने 'प्राणा- न्तिकमनिर्देश्यम्' इति शास्त्रमर्यादा । तथा गौडीमायोजनात्पाने मरणनिषेधा- दितरमद्यापेक्षया गुरुत्वाच्च मानवमेव 'कणान्वा भक्षयेदब्दम्' इति प्रायश्चित्तमु- क्तम् । अतएव गौडीमाध्व्योः कामतः पानानुवृत्तौ भविष्यपुराणे----'यद्वास्मिन्नेव विषये मानवीयं प्रकल्पयेत् । कणान्वा भक्षयेदब्दं पिण्याकं वा सकृन्निशि । सुरा- पापापनुत्त्यर्थ वालवासा जटी ध्वजी' इति । पैष्टीगौडीमाध्वीव्यतिरिक्तपुलस्त्योक्त- पानसादिनवविधमद्यस्य प्रत्येकं पाने लघुत्वात्संस्कारमात्रमेव केवलमन्यद्वा लघु- त्वात्प्रायश्चित्तं ब्राह्मणस्य युक्तम् । बुद्धिपूर्व पानसादिमद्यपाने तु 'मतिपूर्वं सुरा- पाने कृते वै ज्ञानतो गुह । कृच्छ्रातिकृच्छ्रौ भवतः पुनःसंस्कार एव हि ॥' इति भविष्यपुराणीयमन्यविविधं मुन्यन्तरोक्तम् ॥ १४६ ॥ अपः सुराभाजनस्था मद्यभाण्डस्थितास्तथा। पञ्चरात्रं पिबेत्पीत्वा शङ्खपुष्पीश्रितं पयः ॥ १४७ ॥ अप इति ॥पैष्टीसुराभाण्डे तदितरमद्यभाण्डेऽवस्थिता अपः सुरारसगन्धवर्जिताः पीत्वा शङ्खपुष्पाख्यौषधिप्रक्षेपेण पक्कं क्षीरं न तूदकं 'शङ्खपुष्पीविपक्केन त्र्यहं क्षीरेण वर्तयेत्' इति बौधायनस्मरणात्पञ्चरात्रं पिबेत् । सुरामद्ययोः सर्वत्रैव गुरुलधुप्राय- श्चित्ताभिधानादिहापि ज्ञानाज्ञानादिप्रकारभेदेन विषयसमीकरणं समाधेयम् । वाचनिकमेव प्रायश्चित्तं साध्यमिति मेधातिथिराह ॥ १४७ ॥ स्पृष्ट्वा दत्वा च मदिरां विधिवत्प्रतिगृह्य च । शूद्रोच्छिष्टाश्च पीत्वापः कुशवारि पिबेत्र्यहम् ॥ १४८ ॥ स्पृष्ट्वेति ॥ सुरां स्पृष्ट्वा दत्त्वा च स्वस्तिवाचनपूर्वकं च प्रतिगृह्य शूद्रोच्छिष्टाश्च अपः पीत्वा प्रतिगृह्याभ्युपादानाद्राह्मणो दर्भकथितमुदकं त्र्यहं पिबेत् ॥ १४८ ॥