पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मनुस्मृतिः । [ अध्यायः ११ दानेन वधनिर्णेकं सादीनामशकुवन् । एकैकशश्चरेत्कृच्छं द्विजः पापापनुत्तये ॥ १३९ ॥ दानेनेति ॥ अभ्रिप्रभृतीनामभावादानेन सर्वपापनिर्हरणं कर्तुमसमर्थों ब्राह्म- गादिः प्रत्येकं वधे कृच्छं प्राथम्यात्याजापत्यं द्विजः पापनिहरणार्थ चरेत् । सदिय- श्श 'अभिं कार्णायसी दद्यात्' इत्येवमारभ्यैतत्पर्यन्ता गृह्यन्ते ॥ ३३९ ॥ अस्थिमतां तु सत्वानां सहस्रस्य प्रमापणे । पूर्णे चानस्यनस्थां तु शूद्रहत्याव्रतं चरेत् ॥ १४० ॥ अस्थिमतामिति ॥ अनस्थिसाहचर्यादस्थिमतां प्राणिनां कृकलासादीनां सह- सस्य वधे शूद्रवधप्रायश्चित्तमोपदेशिकं कुर्यात्, अस्थिरहितानां च मत्कुणादीनां शकटपरिमितानां वधे तदेव प्रायश्चित्तं कुर्यात् ॥ ३४० ॥ किंचिदेव तु विप्राय दद्यादस्थिमतां वधे । अनस्यां चैव हिंसायां प्राणायामेन शुद्ध्यति ॥ १४१॥ किंचिदिति ॥ अस्थिमतां क्षुद्रजन्तूनां कृकलासादीनां प्रत्येकं वधे किंचिदेव दद्यात् । अस्थिमतां वधे ‘पणो देयः सुवर्णस्य' इति सुमन्तुस्मरणात्किंचिदेवेति पणो बोद्धव्यः। अनस्थिमतां तु यूकामत्कुणादीनां प्रत्येकं वधे प्राणायामेन शुद्धो भवति । प्राणायामश्च 'सव्याहृतिकां सप्रणवां सावित्री शिरसा सह । त्रिःपठेदायतप्राप प्राणायामः स उच्यते ॥' इति वसिष्टप्रोक्तलक्षणो ग्राह्यः ॥ १४१ ॥ फलदानां तु वृक्षाणां छेदने जप्यमृक्शतम् । गुंल्मवल्लीलतानां च पुष्पितानां च वीरुधाम् ॥ १४२ ।। फलदानामिति ॥ फलदानामानादीनां वृक्षाणां, गुल्मानां कुब्जकादीनां,वल्लीनां गुडूच्यादीनां, लतानां वृक्षशाखासक्तानां, पुष्पितानां च वीरवां कूष्माण्डादीनां प्रत्येकं छेदने पापग्रमोचनार्थ सावित्र्यादि ऋक्शतं जपनीयम् । 'इन्धनार्थमशुष्का- णांदुमाणामवपातनम्' इत्यादेरुपपातकमध्ये पठितस्य गुरुप्रायश्चित्ताभिधानात् । इदं फलबद्धृक्षादिच्छेदने लघुप्रायश्चित्तं सकृदबुद्धिपूर्वकविषयं वेदितव्यम् ॥१४२॥ अन्नाद्यजानां सन्वानां रसजानां च सर्वशः। फलपुष्पोद्भवानां च घृतप्राशो विशोधनम् ॥ १४३ ॥ अन्नाद्यजानामिति ॥ अन्नादिषु जातानां, गुडादिरसजातानां चोदुम्बरादिफलसं- भवानां, मधूकादिपुष्पोद्भवानां च सर्वप्राणिनां वधे घृतप्राशनं पापशोधनम् ॥१४३ कृष्टजानामोषधीनां जातानां च स्वयं बने । वृथालम्भेऽनुगच्छेद्गां दिनमेकं पयोत्रतः॥ १४४ ॥ कृष्टजानामिति ॥ कर्षणपूर्वकजातानामोषधीनां षष्टिकादीनां, वने च स्वय- मुत्पन्नानां नीवारादीनां निःप्रयोजनच्छेदने क्षीराहारः । एष्वेकमहो गोरनुगमनं कुर्यात् ॥ १४४॥