पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ११ ] मन्वर्थमुक्तावलीसंवलिता। पय इति ॥ अबुद्धिपूर्वकं मार्जारादीनां वधे त्रिरात्रं क्षीरं पिबेत् । अथ मन्दान- लत्वादिना न समर्थस्त्रिरात्रं प्रतियोजनमध्वनो व्रजेत् । अत्राशक्तस्त्रिरात्रं नद्यां स्नायात् । तत्राप्यक्षमस्त्रिरात्रं 'आपो हि ष्ठा' इत्यादिसूक्तं जपेत् । यथोत्तरं लघुत्वात्पू- पूर्वासंभवे उत्तरोत्तरपरिग्रहो नतु वैकल्पिकः ॥ १३२ ॥ अधि कार्णायसीं दद्यात्सर्प हत्वा द्विजोत्तमः । पलालभारकं पण्ढे सैसकं चैकमाषकम् ॥ १३३ ॥ अभ्रिमिति ॥ सपं हत्वा ब्राह्मणाय तीक्ष्णानं लोहदण्डं दद्यात् । नपुंसकं हत्वा पलालभारं सीसकं च मापकं ब्राह्मणाय दद्यात् ॥ १३३ ॥ घृतकुम्भं वराहे तु तिलद्रोणं तु तित्तिरौ । शुके द्विहायनं वत्सं क्रौञ्चं हत्वा निहायनम् ॥ १३४ ॥ घृतेति ॥ सूकरे हते घृतपूर्ण घटं ब्राह्मणाय दद्यात् । तित्तिरिसंज्ञिनि पक्षिणि हते चतुराढकपरिमाणं तिलं दद्यात् । शुके हने द्विवर्षे वत्सम् । क्रौञ्चाख्यं पक्षिणं हत्वा त्रिवर्ष वत्सं ब्राह्मणाय दद्यात् ॥ १३४ ॥ हत्वा हंसं बलाकां च बकं बहिणमेव च । वानरं श्येनभासौ च स्पर्शयेद्राह्मणाय गाम् ॥ १३५ ॥ हत्वेति ॥ हंसबलाकामयूरवानरश्येनभासाख्यपक्षिणामन्यतमं हत्वा ब्राह्मणाय गां दद्यात् ॥ १३५॥ वासो दद्याद्धयं हत्वा पञ्च नीलान्वृषान्गजम् । अजमेषावनड्वाहं खरं हत्वैकहायनम् ॥ १३६ ॥ वास इति ॥ अश्वं हत्वा वस्त्रं दद्यात् । हस्तिनं हत्वा पञ्च नीलान्वृषभान्दद्यात् । प्रत्येकं छागमेषौ हत्वा वृषभं दद्यात् । गर्दभं हत्वैकवर्ष वत्सं दद्यात् ॥ १३६ ॥ क्रव्यादांस्तु मृगान्हत्वा धेनुं दद्यात्पयस्विनीम् । अक्रव्यादान्वत्सतरीमुष्टं हत्वा तु कृष्णलम् ॥ १३७ ॥ क्रव्यादानिति ॥ आममांसभक्षिणो मृगान्व्याघ्रादीन्हत्वा बहुक्षीरां धेनुं दद्यात् । आममांसाभक्षकान्हरिणादीन्हत्वा प्रौढवत्सिकां दद्यात् । उष्ट्रं हत्वा सुवर्णकृष्णलं रक्तिकां दद्यात् ॥ १३७ ॥ जीनकार्मुकवस्तावीन्पृथग्दद्याद्विशुद्धये । चतुर्णामपि वर्णानां नारीहत्वाऽनवस्थिताः ॥ १३८ । [वर्णानामानुपूर्येण त्रयाणामविशेषतः । अमत्या च प्रमाप्य स्त्रीं शूद्रहत्याव्रतं चरेत् ॥] जीनेति ॥ ब्राह्मणादिवर्णस्त्रियो लोभादुन्कृष्टापकृष्टपुरुषव्यभिचारिणीहत्वा ब्राह्म- णादिक्रमेण चर्मपुटधनुश्छागमेपान्शुयर्थ दद्यात् ॥ १३८ ॥ मनु० ३८