पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। ४४४ मनुस्मृतिः। [ अध्यायः ११ भागः। एतच्च प्रायश्चित्तं 'स्त्रीशूद्भविदक्षत्रवधः' इत्युपपातकत्वेनोपदिष्टं त्रैवार्षिक- त्वापेक्षया गुरुत्वाद्वृत्तस्थक्षत्रियस्य कामतो वधे द्रष्टव्यम् । वैश्ये साध्वाचारे कामतो हतेऽष्टमो भागः सार्धवार्षिकं व्रतम् । शूद्रे वृत्तस्थे कामतो हते नवमासिकं द्रष्टव्यम् ॥ १२६ ॥ अकामतस्तु राजन्यं विनिपात्य द्विजोत्तमः वृषभैकसहस्रा गा दद्यात्सुचरितत्रतः ॥ १२७ ॥ अकामत इति ॥ अबुद्धिपूर्वकं पुनः क्षत्रियं निहत्य वृपभेणैकेनाधिकं सहस्त्रं यासां गवां ता आत्मशुद्ध्यर्थं ब्राह्मणेभ्यो दद्यात् ॥ १२७ ॥ व्यब्दं चरेद्वा नियतो जटी ब्रह्महणो व्रतम् । वसन्दूरतरे ग्रामागृक्षमूलनिकेतनः ॥ १२८ ॥ त्र्यब्दमिति ॥ यद्वा संयतो जटावान्यामाद्विप्रकृष्टवृक्षमूले कृतनिवासो ब्रह्महणि यदुक्तं 'ब्रह्महा द्वादश समाः' इत्यादि तद्वर्पवयं कुर्यात् । ननु ‘तुरीयो ब्रह्महत्या- याः' इत्यनेन पुनरुक्तिर्वाच्या । 'जटी दूरतरे ग्रामावृक्षमूलनिकेतनः' इति वचना- ध्यतिरिक्तशवशिरोध्वजधारणादि सकलधर्मनिवृत्त्यर्थत्वादस्य ग्रन्थस्य । अकामाधि- काराच्चेदमकामतः । अतएवाङ्गलाघवाधुचितम् ॥ १२८ ॥ एतदेव चरेदब्दं प्रायश्चित्तं द्विजोत्तमः । प्रमाप्य वैश्यं वृत्तस्थं दद्याच्चैकशतं गवाम् ॥ १२९ ॥ एतदिति ॥ एतदेव द्वादशवार्पिकव्रतमकामतः साध्वाचारं वैश्यं निहत्य वर्ष- मेकं ब्राह्मणादिः कुर्यादेकाधिकं वा गोशतं दद्यात् ॥ १२९ ॥ एतदेव व्रतं कृत्स्नं षण्मासान् शूद्रहा चरेत् । वृषभैकादशा वापि गाः सिताः॥ १३०॥ एतदिति ॥ एतदप्यकामत इदमेव व्रतं शूदहा षण्मासं चरेत् । वृषभ एका- दशो यासां गवां ताः शुक्लवर्णा ब्राह्मणाय दद्यात् ॥ १३० ॥ मार्जारनकुलौ हत्वा चार्ष च। श्वगोधोलूककाकांश्च शूद्रहत्याव्रतं चरेत् ॥ १३१ ॥ मार्जारेति ॥ त्यावतं स्त्रीशूद्भवध इत्युपपातकप्रायश्चित्तं गोवधव्रतं चान्द्रायणं चरेत्, नतु 'शूद्रे ज्ञेयस्तु षोडशः' इत्यादि प्रायश्चित्तं पापस्य लघुत्वात् । चान्द्रायणमप्येत- कामतोऽभ्यासादिविषये द्रष्टव्यम् पयः पिबेत्रिरात्रं वा योजनं वाध्वनो व्रजेत् । उपस्पृशेत्सवन्त्यां वा सूक्तं वाब्दैवतं जपेत् ॥ १३२ ॥