पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४२ मनुस्मृतिः। [अध्यायः११ लूनश्मधुस्तेन हतगोचर्मणाच्छादितदेहो मासत्रयमेव गोष्टे वसेत् । गोमूत्रेणाचरे- स्नानं संयतेन्द्रियः कृत्रिमलवणवर्जितं हविय्यमन्नमेकाहं भुक्त्वा द्वितीयेऽह्नि सायं द्वितीयतृतीयमासावश्नीयात् । मासत्रयमेव दिवा प्रातस्ता गा अनुगच्छेत् । तासांच गवां खुरमहारादूर्ध्वमुत्थितं रजस्तिष्ठन्नास्वादयेत् । कण्डूयनादिना ताः परिचर्य प्रणम्य च रात्रौ भित्त्यादिकमननुवेष्टयोपविष्ट आसीत। तथा शुचिर्विगतक्रोध उत्थि- तासु गोषु पश्चादुत्तिष्टेत् । वने च परिभ्रमन्तीषु पश्चात्ततः परिनमेत् । उपविष्टासु गोधूपविशेत् । व्याधितां चौरच्याघ्रादिभयहेतुभिराक्रान्तां पतितां कर्दमलग्ना वा यथाशाक्ति मोचयेत् । तथा उष्ण आदित्ये तपति मेघे च वर्षति शीते चोपस्थिते मारुते चात्यथै वाति गोर्यथाशक्ति रक्षामकृत्वात्मनस्त्राणं न कुर्यात् । तथात्मनो- न्येषां वा गेहे क्षेत्रे खलेषु सस्यादिभक्षणं कुर्वन्तीं वत्सं च क्षीरं पिबन्तं न कथयेत्। अनेनोक्तविधानेन यो गोनो गाः परिचरति स गोवधजनितपापं त्रिभिर्मासैरपनु- दति ॥ १०४-११५॥ वृपभैकादशा गाश्च दद्यात्सुचरितव्रतः। अविद्यमाने सर्वस्वं वेदविट्यो निवेदयेत् ॥ ११६ ॥ वृपभैकादशा इति ॥ वृषभ एकादशो यासां ताः सम्यगनुष्ठितप्रायश्चित्तो दद्यात् । अविद्यमाने तावति धने सर्वस्वं वेदज्ञेभ्यो ब्राह्मणेभ्यो दद्यात् ॥ ११६॥ एतदेव व्रतं कुर्युरुपपातकिनो द्विजाः। अवकीणिवयं शुद्ध्यर्थं चान्द्रायणमथापि वा ॥ ११७ ॥ एतदेवेनि ॥ अपरे तूपपातकिनो वक्ष्यमाणावकीणिवर्जिताः पापनिर्हरणार्थमेत- देव गोवधप्रायश्चित्तं चान्द्रायणं वा लघुत्वाकुर्युः । चान्द्रायणं तु लघुन्युपपातके जातिशक्तिगुणाद्यपेक्ष्य वा योजनीयम् ॥ ११७ ॥ अवकीर्णी तु काणेन गर्दभेन चतुष्पथे । पाकयज्ञविधानेन यजेत नितिं निशि ॥ ११८ ॥ अवकीर्णी स्विति ॥ अवकीर्णी वक्ष्यमाणः काणेन गर्दभेन रात्रौ चतुष्पथे पाक- यज्ञेन तत्रेग निर्ऋत्याख्यां देवतां यजेत ॥ ११८॥ हुत्वाग्नौ विधिवद्धोमानन्ततश्च समेत्युचा । वातेन्द्रगुरुवहीनां जुहुयात्सर्पिणाहुतीः ॥ ११९ ॥ हुत्वेति ॥ ततो निर्ऋत्यै गर्दभवपादिहोमान्यथावञ्चतुप्पथे कृत्वा तदन्ते 'संमा- सिञ्चन्तु मरुतः' इत्येतया ऋचा मारतेन्द्रबृहस्पत्यन्नीनां घृतेनाहुतीर्जुहुयात् ११९॥ अग्रसिद्धत्वादवकीर्णवतो लक्षणमाह- कामतो रेतसः सेकं व्रतस्थस्य द्विजन्मनः। अतिक्रमं व्रतस्साहुर्धर्मज्ञा ब्रह्मवादिनः ॥ १२० ॥